पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/369

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२७
गोलप्रशंसा

 “अत्रोपपत्तिः--‘श्रुतिगोलेन° ज्ञातुं शक्यत”
 इति साधनोपपत्ति प्रति श्रुतगोलेनेति तृतीयया हेतुत्वं गोलज्ञानस्योत्तम् ।
 वासनावगतिगाँलानभिज्ञस्य न जायते ।
 व्याख्याताः प्रथमं तेन गोले या विषमोत्तयः ।

अथ निजकृतशास्त्रे तत्प्रसादात्पदार्थान्
शिशुजनघृणयाऽहं व्यञ्जयाम्यत्र गूढान् ।
विमलितमनसां सद्वासनाभ्यासयोगै
भवति हृदि यथैषां तत्त्वभूतार्थबोधः ॥

 इति च स्पष्टमेवाभिहितम्
 लम्बन बत कि ? का च नतिमतिमताम्बर  इत्यादि प्रशनाः ।
 दृक्सूत्राल्लम्बितश्चन्द्रस्तेन तल्लम्बनं स्मृतम् ।
 इति चोत्तराणि गोलस्य ग्रहगणितप्रतिपाद्यपदार्थस्वरूपयुक्तिप्रतिपादकत्वं गमयन्ति । यद्वा "दृग्गणितसाम्यसम्पादनकौशल ६ प्रौढत्वम्। ग्रहगणितप्रतिपादितपदार्थास्तद्वासनावासितान्तःकरणगणकप्रत्यक्षाः । यथा सुवर्णत्वावान्तरजाति उपदेशसहकृतचक्षुग्रीह्या तथा वासना ज्ञानसहकृतचक्षुग्रीह्या लम्बनादिपदार्था इति दृग्गणितैक्यसम्पादने गोलज्ञानमावश्यकम् । दृग्गणितैक्यज्ञानसम्पादनकुशलेनैव ग्रहणाद्यादेशो निःसंशयं कत्तु' शक्यते नान्येन । तस्माद् गोलस्य ग्रहणाद्यादेशः परम्परया फलम् ॥· दृग्ग्राह्यपदार्थयतातुल्यत्वं ग्रहगणितागतपदार्थयताया: यथा भवति तथा सम्पादनं दृग्गणितसाम्यसम्पादनमित्युच्यते ।
 गतिर्नाम ग्रहचलनात्मकं कर्म, प्रत्यक्षं ग्रहश्चलतीत्यनुभवेनायं चलतीतिवत् । चलनात्मक कर्म संयोगविभागात्मकम् । अभ्रेषु चलत्सु चन्द्रश्चलतीति ज्ञानं भ्रान्तिरूपं विदिततत्त्वानां पीतः शङ्ख इति वत् ।
 ननु दृग्ग्राह्यपदार्थेयत्ता प्रत्यक्षप्रमाणगम्या । ग्रहगणितागतपदार्थेयत्ता सूर्यादिप्रणीतज्योतिश्शास्त्ररूप-स्मार्त्तश्रुतिप्रमाणगम्या । कथमनयोविरोधे प्रत्यक्षानुरोधेन स्मार्तश्रुतेर्नयनमिति ।
 यथा-'कृष्णलं श्रपयेत्' इत्यादौ कृष्णले <उष्णीकरणमात्रमिव रूपरसपरावृत्तिप्रादुर्भावपर्यंन्तमुख्यश्रपणसम्बन्धः प्रत्यक्षविरुद्ध इति तदविरोधाय `श्रपणशब्दस्योष्णीकरणमात्रे लक्षणाभ्युपगमात् तथाऽत्रापि प्रत्यक्षप्राबल्यम्। अन्यथा प्रत्यक्षादागम १. लेनैव इति भाष्ये । २. श्रोतुमिति भाष्ये। ३. ग्र० ग० आदी भाष्ये । ४. लिन क पु० । ५. म्यं क पु० । ६. शल्य क पु० । W9 . ታo ፪ሀፍ !%IV9 ] ८. उषी क । ९. स्योष्ली क० ।