बलीयस्त्वे ‘यजमानः प्रस्तर:” गौणीवृतिर्न कल्पनीया। तथा ‘सोमेन यजेत" इत्यत्र वैय्यधिकरण्येनान्वये यागे इष्टसाधनत्वं सोमलतायां यागसाधनत्वं च बोधनीयमिति व्यापार-भेदन वाक्यभेदांपत्ते: । सामानाधिकरण्येनान्वये वक्तव्ये प्रत्यक्षाविरोधाय सोमवता यागेनेति मत्वर्थलक्षणा न कल्पनीया स्यात् । अथवा तात्पर्यवती श्रुतिः प्रत्यक्षाद् बलवती न श्रुतिमात्रम्। मन्त्रार्थवादानां श्रुतिद्वारभूतेऽथें वाक्यार्थद्वारभूते पदार्थ इव न तात्पर्यम् ।
ननु तात्पर्याभावे मानान्तराविरुद्धदेवताविग्रहादि कथं तेभ्यः सिध्येत तात्पर्यंवत्येव शब्दस्य प्रामाण्यनियमादिति चेन्न ।
‘‘एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसामकृत्वा पशुकामो ह्येतेन यजेत इति विशिष्टविधेस्तात्पर्यागोचरे विशेषणस्वरूपे प्रामाण्यदर्शनेनोक्तनियमासिद्धेः । अत्र हि रेवती ऋगाधारं वारवन्तीयं सामविशेषणं न चैतत्सोमादिविशेषवल्लोकसिद्धम् । येन तद्विशिष्टयागविधिमात्रे प्रामाण्यं वाक्यस्य स्यात् । नापि विशिष्टविधिना विशेषणाक्षेपः । आक्षेपाद्विशेषणप्रतिपत्ती विशिष्टगोचरो विधिस्तस्मिंश्च सति तेन विशेषणाक्षेप इति परस्पराश्रयापत्तेः । अतो विशिष्टविधिपरस्यैव वाक्यस्य विशेषणस्वरूपेऽपि प्रामाण्यं वक्तव्यम् ।
अथ तत्र न तात्पर्यम् । उभयत्र तात्पर्यो वाक्यभेदापत्तेः । एवमर्थवादानामपि विधेयश्रुतिपराणां स्तुतिद्वारभूतेऽर्थे न तात्पर्यमिति तेभ्यः प्रत्यक्षस्यैव बलवत्वात्तदविरोधाय तेषु वृत्त्यन्तरकल्पनम् । “सोमेन यजेत' इत्यत्र विशिष्टविधिपरे वाक्ये सोमद्रव्याभिन्नयागरूपं विशिष्टं विधेयमित्युपगमे तस्य विधेयस्य ‘दध्ना जुहोती' त्यादौ विधेयस्य दध्यादेरिव लोकसिद्धत्वाभावेन विधिपराद्वाक्यादेव रेवत्याधारवारवन्तीयादिविशेषणस्येव विना तात्पर्य सिद्धिरेटव्या ।
न तात्पर्यरहितादागमाद्यागसोम°लताभेदग्राहिप्रत्यक्षविरुद्धार्थ: सिध्यतीति तत्रापि तदविरोधाय मत्वर्थलक्षणाश्रयणम् । प्रकृते सौरादिस्मार्तश्रुतिर्टग्ग्राह्यपदार्थेयतायामेव तात्पर्यवती। ततोऽस्याः प्रत्यक्षेणाविरोध एव ।तात्पर्यंरहिता ग्रहगणितागतपदार्थेयत्ताप्रतिपादका स्मार्त्तश्रुतिर्ग्रहगणितागतस्पर्शसमये ग्रस्तं चन्द्रं नाद्राक्षमधुना ग्रस्तं चन्द्रं पश्यामीति सर्वजनानुभवसिद्धप्रत्यक्षाद्दुर्बलैवेति प्रत्यक्षानुरोधेन स्मार्त्तश्रुतेः प्रत्यक्षसाम्यसम्पादनं युक्तम् ।
अतीत्योन्मीलनादिन्दोट्टकृसिद्धिगणितागता । |
इति स्वमध्यरेखा-स्वस्थानान्तरयोजनोत्पन्नपूर्वापरदेशान्तराज्ञाने देशान्तर ज्ञानप्रतिपादकेन सौरेण देशान्तरासंस्कृतत्वादेव स्पर्शसमये स्पशों न दृश्यते ।
१. ताण्ड्य ब्रा० १७१७ १ ।।
२. मनता क पु० ॥
३. सू० सि० म० ७३ श्लो० । किन्तु दिन्दोः पश्चात्तद्गणितागतात् इति मु० पु० ।।