इदानी गोलप्रशंसया गोलानभिज्ञगणकोपहासं श्लोकद्वयेनाह
'भोज्यं यथा सर्वरसं विनाज्यं राज्यं यथा राजविवर्जितं च |
वादी व्याकरणं विनैव विदुषां धृष्टः प्रविष्टः सभां |
वा० भा०-स्पष्टार्थम्। ३-४ ।
वा० भा० गोलप्रशंसार्थ गोलानभिज्ञदूषणमाह-भोज्यमिति। वादी व्याकरणमिति। नहि निन्दानिन्दितुं प्रवर्त्तते । किन्तु विधेयं स्तोतुमिति न्यायेन श्लोकद्वयमुक्तम् ३-४ ।।
अथ गोलस्वरूपमाह—
अदृष्टान्त एवावनिभग्रहाणा संस्थानमानप्रतिपादनार्थम्। |
वा० भा०-स्पष्टार्थम्। ५ ।
वा० वा०-अथगोलस्वरूपमाह- दृष्टान्त एवेति । गोल: क्षेत्रविशेष एव । दृष्टान्तोऽवनि-भ-ग्रहाणां संस्थानमानप्रतिपादनार्थम्। गोलदृष्टान्तेन निखिलग्रहगणितप्रतिपाद्यपदार्थस्वरूपयुक्तिप्रतिपादनाद् ग्रन्थस्यापि गोलाभिधेयता । क्षेत्रविशेषो गणितगम्य एव भवति ॥ ५ ।।
१. अत्र श्रीपति:-
यद्वदिन्दुरहिता न शर्वरी भाति शीलरहिता न चाङ्गना । ब्राह्मणश्च न चरित्रवजितस्तद्वदेव गणको ह्यगोलवित् ( सि० शे०.१५ अ, २ श्लो० ) लल्लोऽपि - - - शशधरकिरणैविना प्रदोषः कुचरहितं ललनाजनस्य वक्षः । मधुररसविवर्जितञ्च भोज्यं न किमपि गोलविवजित च तन्त्रम् । - शि० धीवृ० १५ अ० २ श्लो० ।
२. अत्र श्रीपतिः- -
अविदितपदलक्ष्यो बावदूकोऽपि यातश्चतुरबुधसभायां यद्वदायाति हास्यम्। ग्रहगणितविदेवं गोलतत्त्वानभिज्ञो ग्,णकसदसि विद्वच्चक्रवक्रोक्तिदीनः । सि० शे० गो० १५ अ० ३ श्लो० ।
३. अत्र श्रीपतिः- - ग्रहनक्षत्रधरित्री संस्थानस्येह दर्शनोपायः ॥ गोल इति कथ्यतेऽसौ क्षेत्रविशेषो गणितगम्यः । सि० शे० गो० १५ अ० ६ श्लो० ।।