"'तस्माद्यज्ञात्सर्वहूतऋचः सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायतेति ॥
नित्यत्वेन कतुदोषशङ्कानुदयादकलङ्कितमाम्नायप्रामाण्यमिति मीमांसकाः ।
तथा च जैमिनिना सूत्रितम्-तत्प्रमाणं बादरायणस्यानपेक्षत्वादिति [ मी० सू० ] । उक्तं च भट्टपादैः
रागद्वेषादिकालुष्यं पुरुषेधूपलभ्यते ।
अतो प्रामाण्यशङ्कापि निष्कलङ्के प्रसज्यते ॥
वेदप्रमाणता तस्मिन् नित्यत्वेनाभ्युपेयतामिति ॥
नित्यदेव परमेश्वरादेव निश्वासवदप्रयत्ननिःसारिता वेदाः प्रमाणमिति वैयासिकाः ॥ अत्र श्रुतिः ‘तस्य* महतो भूतस्य निश्वसितमिति” ।
वैदिकैः स्मर्यमाणत्वात्तत्परिग्रहदाढर्च्यतः ।
संभाव्यवेदमूलत्वात्स्मृतीनां वेदमूलता इति ।
ज्योतिश्शास्त्रस्मृतिर्वेदमूलैव ।
शाखास्कन्धप्रतिपाद्योत्पातफलशान्तयोऽथर्वपरिशिष्टे दृश्यन्ते ! यात्रावास्तुविचारोऽपि तस्माद् गर्गादिसंहितानां प्रत्यक्षवेदमूलता । आदेशो बहुधा संवदत्येवातो न ज्योतिश्शास्त्राध्ययनानर्थक्यम्। वेदे ऐहिकफलानि कर्माण बहूनि प्रतिपादितानि तेषां सम्यगनुष्ठानेऽपि कदाचित्फल न दृश्यते। नैतावता वेदाध्ययनमनर्थकं तथात्राप्यवगच्छ | जन्मान्तरीयमदृष्टं प्रतिबन्धकं कल्प्यते वैदिककर्मणः फलावश्यं भावात्तथात्रापि ज्योतिश्शास्त्रप्रामाण्यात्कल्प्यते । इहानार्दी संसारे जीवस्य जन्मान्तरोपाजितान्यनन्तकर्माणि सन्ति । तत्रैतच्छरीरारम्भकाणि यानि कर्माणि तानि प्रारब्धकर्माणीत्याहुः ।
अग्न्यानि तु सञ्चितकर्माण्येव । वेदस्मृतिपुराणेतिहासोदितविहितकर्माण शुभफलजनकानि वेदादिनिन्दितकर्माण पापफलान्यशुभानि भवान्तरफलदानि भवन्ति । तत्रेदृशप्रारब्धकर्माण्यस्मिन् भवे दैवाख्यां प्राप्तानि । प्रारब्धकर्मणां भोगादेव क्षय इत्यस्मिन् भवेऽवश्यं भोक्तव्यानि जीवने । अस्मिन् जन्मनि कस्य प्रारब्धकर्मणः कदा भोग इति दशाक्रमेण जातकशास्त्रं व्यनिति । प्रारब्धकर्मणां मध्येऽकृतप्रायश्चितोपदेश: क्रियते । केन जन्मकालीनग्रहयोगेनायं 3 रोग इति जातकशास्त्रान्निश्चित्यायं रोगः कस्याकृतप्रायश्चित्तं, निन्दितप्राक्कर्मणो विपाक इति निश्चिन्वते ।
प्रारब्धकर्माप द्विविधम्-दृढ़मूलमदृढमूलचेति । तत्रादृढ़मूल प्रायश्चित्तेन शान्त्या वा निवार्यते स्वल्पप्रयत्नेन प्रशिथिलपादप इव । दृढ़मूलन्तु सम्पूर्णनापि प्रायश्चित-शान्तिरूपेण प्रयत्नेनापि न वार्यते। खरतर वाताघातेन दृढ़मूलपादप इव। प्रायश्चित-शान्तिकरणेन प्रारब्धकर्मणो दृढ़ादृढ़मूत्वं ज्ञायते । जातकशास्त्रं प्रारब्धकर्मविपाकव्यञ्जकमिति प्रसिद्धम् । यत्तु फलं
१. शु० यजु० सं० ३१।।६।। २. वृ० आ० २४१० । । ३. योग इ० क पु० ॥