पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/376

एतत् पृष्ठम् अपरिष्कृतम् अस्ति



३३४
सिद्धान्तशिरोमणौ गोलाध्याये

 प्राप्त्यादिफलका यात्रोक्ता ? । स्वरशास्त्रे युद्धकाल एव बहुकालानली यात्रोक्तेति विषयभेद: स्पष्ट एव । युद्धजयाजयविचारश्च स्वरशास्त्रगोचर: । गोचरवेधाष्टकवर्गादिस्थूलविचारोऽपि संवदत्येवेति च सर्व सप्रमाणकम् ।

 प्भाशुभफलज्ञानमनिज्ञानोपायमिति त ( द ?) दज्ञानोपायानां बहुत्वाद्दृष्टार्थानां समुच्चय एव न्याय्यः । अायुषश्छेदेऽरिष्टमिति तद् भङ्गो विचार्यः । एवमायुदयप्रकारभेदे पापः पापदशां विशेत् स च विपत्कर्तेतिवद् रिष्ट्रकल्पना (यां ?' न कोऽपि दोष इति सर्वत्र समाधेयं शास्त्रप्रामाण्यात् ।  ज्योतिवित्स्वरूपं यादृशमुक्तं गर्गादिसंहितासु तादृशेन ज्योतिविदा कृतं शुभाशुभफलादेश एव संवदति नान्य इत्यपि कल्प्यम् । ग्रहणाद्यादेशोप्यादेशानामन्यतम इति ज्योतिश्शास्त्रफलमादेश इत्युक्तम् । तत्र वात्तिके स्मृति चरणे भट्टपादैरुक्तम् -

 "ज्योतिः शास्त्रेऽपि युगपरिवर्त्तपरिमाणद्वारेण चन्द्रादित्यादिगतिविभागेन तिथिनक्षत्रादिज्ञानमविच्छिन्नसम्प्रदायगणितानुमानमूलम् । ग्रहसौष्ठयदौष्टयनिमित्तकृतं शुभाशुभकर्मफलविपाकसूचनन्तु तद्गतशान्त्यादिद्वारेण वेदमूलम् । ईट्टशा वा विधयः सर्वत्रानुमातव्याः । ईदृशे गृहुशरीरादिसन्निवेशे तदेतत्प्रतिपत्तव्यमिति । ईदृशा वैतस्य राणकव्याख्या । पूर्व शान्त्यादिविधानद्वारेण वेदमूलकत्वमुक्तम् । सम्प्रति तु साक्षादेव तत्प्रतिपादका विधयोऽनुमातव्या इत्याह-ईदृशा वेति । गृहसक्षिवेशो वास्तुविद्याविषयः । शरीरसन्निवेशः सामुद्रादिविषयः । अादिशब्दोपात्तानां ग्रहाणां सौष्ठयदौष्यरूपः सन्निवेशो ज्योतिश्शास्त्रविषय इति वेदमूलकत्वेन प्रामाण्यमादेशः फलमिति स्पष्टम। होराशास्त्रादेशो लग्नबलाश्रितो, लग्नबल स्पष्टखेटाश्रयं, स्पष्टखेटाश्च गोलाश्रयिणः, गोलज्ञानं गणितैकगम्यमिति स्पष्टम् ।। ६ ।। इदानी ज्योतिश्शास्त्रश्रवणाधिकारिलक्षणमाह - द्विविधगणितमुक्ततं व्यक्तमव्यक्तयुक्ततं तदवगमननिष्ठः शब्दशास्त्र पटिष्ठः ।। यदि भवति तदेदं ज्योतिषं भूरिभेदं प्रपठितुमधिकारी सोऽन्यथा नामधारी ॥७॥

वा० भा० - स्पष्टार्थम् ॥ ७ ॥

 वा० वा०-ज्योतिश्शास्त्राध्ययने कीदृश अधिकृयत इत्याह-द्विविधमिति ।  पठितशब्दशास्त्र: पठितद्विविधगणितश्चाधिकारी । ज्योतिज्ञान विद्यते ܚ प्रस्मिन्निति ज्योतिषमर्ष अादिभ्यो वा । शेषं स्पष्टम् ।। ७|

अथ व्याकरणवर्णनमाहयो-
वेद वेदवदनं सदनं हि सम्यग्ब्राह्मयाः स वेदमपि वेद किमन्यशास्त्रम् ।
यस्मादतः प्रथममेतदधीत्य धीमान् शास्त्रान्तरस्य भवति श्रवणेऽधिकारी ॥८॥
वा० भा०-स्पष्टार्थम् । मैं । 

 वा० वा०-व्याकरणाध्ययनेनैव सर्वशास्त्राध्ययनेऽधिकार इति व्याकरणाध्ययनं प्रथममावश्यकमित्याह-यो वेदेति || ८ ||