पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/378

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३६
सिद्धान्तशिरोमणौ गोलाध्याये



किं देशान्तरमुद्गमान्तरमहो बाह्वन्तरं किं चरं
किं चोच्चं मृदु चञ्चलं च तदिदं कस्तात पातः स्मृतः ॥३॥
किं केन्द्र किमु केन्द्रज किमु चल किं वाचलं तत्फल
कस्मात् तत्सहितः कुतश्च रहितः खेटः स्फुटो जायते ।
किं दृकर्म तथोदयास्तसमये द्वेधा विदध्युर्बुधाः
सर्व मे विमलं वदामलमल गोल विजानासि चेत्।।४।।

 वा० भा०-अत्र कि देशान्तरमुद्गमान्तरमित्यादि यत् पृष्ट तत् सर्व मे विमल यथा भवति तथा वद । यद्यमलं ब्रह्मादिसुकविरचितं गोलमलमत्यर्थं विजानासि ॥ शेषं स्पष्टम् ॥३-४॥ अय त्रिप्रश्ने दिनमानभेदप्रश्न श्लोकद्वयेनाह

महदहः किमहो रजनी तनुर्दिनमणी गणकोत्तरगोलगे ।
ननु तनुर्दिवसो महती निशा वद विचक्षण दक्षिणदिग्गते ॥९॥
भवति किं द्युनिशं द्युनिवासिनां द्युमणिवर्षमितं च सुरद्विषाम् ।
पितृषु किं शशिमासमितं तथा युगसहस्रयुगं द्रुहिणस्य किम् ॥६॥

 वा भा०-स्पष्टम्। ५-६ ।  अथ राश्युदयभेदप्रश्नमाह-

भवलयस्य किलार्कलवाः समाः किमसमैः समयैः खलु राशयः ।
समुपयान्त्युदयं किमु गोलविन्न विषयेष्वखिलेष्वपि ते समाः ॥७॥

To To-eqgi si इदानीं युज्याकुज्यादिसंस्थानप्रश्न वृताधेनाह

युज्याकुज्यापमसमनराग्राक्षलम्बादिकानां
विद्वन् गोले वियति हि यथा दशंय क्षेत्रसंस्थाम् ।

वा० भा०-स्पष्टार्थम्। इदानी चन्द्रार्कग्रहणयोदिक्कालभेदाशुपपत्तिप्रश्नान् सार्धश्लोकेनाह

तिथ्यन्ते चेद्ग्रह उडुपतेः* किं न भानोस्तदानी
मिन्दोः प्राच्यां भवति तरणेः प्रग्रहः किं प्रतीच्याम् ॥८॥


१. अत्र बापूदेवः  चन्द्रस्य ग्रहोऽपि सर्वदा तिथ्यन्ते न भवति । यतो ग्रहो नाम छाद्यच्छादकयोर्योगः स च भूमेन्दुकेन्द्रयोर्यदात्यल्पमन्तरं स्यात् तदैव भवति । तच्च पूर्णान्ते कदम्बसूत्रंगतयोर्मू भेन्द्वोस्तत् प्रायः कदम्बसूत्रस्थयोरेव भवतीत्यनेन योगः प्रायिकः कादाचित्कस्त्वन्यत्र स्थितयोरपीति प्रदर्शयद्भिराचार्यैस्तिथ्यन्तादितरत्रापि स्वयं दशितम् । वस्तुतश्च कदम्बसूत्रं गतयोर्भूभेन्द्वोः केन्द्रान्तरसत्त्वेऽ त्यल्पमन्तरं नैव भवत्यपि त्वन्यत्रैवेति ।