पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/380

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३८
सिद्धान्तशिरोमणौ गोलाध्याये


सति गुरुत्वाधिकरणत्वे सति पतनानाश्रयत्वाद् यदेवं तदेवं यथा जनपदमस्तकोपरि जलपरिपूर्ती घट इत्यनुमानेन भुवः साधारत्वे भचक्रस्याधारे स्खलितस्य भ्रमण न संभवति । भूव्यासोनं चन्द्रकर्णे योजनेभ्योऽर्वाग् अाधारकल्पनेन द्वादशयोजनेभ्योऽवाग्र आधारकल्पनेन वा भचक्रभ्रमणसंभवेऽपि भूम्याधारस्येयतावच्छिन्नपरिमाणाधिकरणलक्षणलक्षितस्य मूर्तस्याधारान्तरमपेक्षितम् ।

एवं मूर्ताधारपरम्परास्वीकारे भचक्रभ्रमण न संभवति।
किञ्च योऽप्याधारो वक्तव्यः सोऽपि *‘पृथिवी विश्वस्य धारिणी”ति श्रुत्या
विश्वान्तर्गतत्वेन धराधरपदाभिधेयकुलाचल इव ।

यो यत्र तिष्ठत्यवनीं तलस्थामात्मानमस्या उपरि स्थितञ्च ।
स मन्यते

  इति वक्ष्यमाणप्रकारेण कथं पृथिव्याघेयो न स्यात् । किञ्च ‘सर्वतः पर्वतारामग्रामचैत्यचयैश्चितो भूगोल' इति सर्वत्र भूगोले सस्यनिष्पत्त्यर्थ पाकार्थवृष्टरनुकूलत्वस्वीकारेऽग्नेरूध्र्वज्वलनस्वीकारे च समन्तादाकाशस्य स्थितत्वात्सर्वेषां भूमिरेवाधः संभवति । न भूमेः क्वाप्यधः प्रदेशः संभवति प्रतियोगिसापेक्षत्वादधः प्रदेशेऽप्याधारः कल्पनीय इति भूमेरधः प्रदेशाभावान्न क्वाप्याधारः कल्पयितुं शक्यते ।

 सिद्धपुरस्थानां लङ्कायामधःप्रदेश इव सर्वत्राप्याधारो भूगोले वा कल्पनीयः स्यात् । तस्माज्जनपदमस्तकोपरि घट इव न केनाप्याधारेण भूगोलो भ्रियत इति सर्वेषां सिद्धान्तः । अत एव सूर्यसिद्धान्ते *---

मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति ।
बिभ्राणः परमां शक्ति ब्रह्मणो धारणात्मिकाम् ॥
इत्युक्तम्
अाधारकल्पनाभावात्कूर्मस्यापि शरीरिणः ।
अनवस्थाप्रसङ्गाच्च खे भूस्ताक्ष्र्यवदाश्रिता ॥

 इत्यनेन शाकल्यसंहितायामुक्तञ्च । पुराणेषु तु शेषकूर्मवराहाः पृथिवीपुटरूपया तलावस्थिता उक्तास्तेषा भूम्यन्तर्गतत्वेन । यत्किञ्चित्पातालोपरिगभूखण्डधारणादशेषभूगोलधारणक्षमत्वोपचारेण च भूम्याधारत्वेऽपि भिन्नविषयत्वात् सिद्धान्तपुराणाविरोधः ।

सिद्धान्तैर्भूमेरधःप्रदेशे आधारो नास्तीति प्रतिपाद्यते ।
पौराणिकैस्तु भूम्यन्तर्गता अधारा वर्तन्त इति न कोऽपि विरोधः ।
तेनेयं नागवयेंण शिरसा विधूता मही।
भूभारखिन्ननागेन्द्रशीर्षविश्रामसम्भवः ॥


१. मुण्डको० २॥१३० ।।     R. सि० शि० गो० भु० १६ श्लो० ।


३. सू० सि० १२ अ० ३२ श्लो० ! °