पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/381

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३९
गोलस्वरूपप्रश्नाध्यायः


 “भूकम्प' ।

 इति कश्यपगर्गसंहितोतिर्यंत्किख्रिद्भूखण्डाधारत्वे संगच्छते । अन्यथा शेषभूगोलाधारकत्वे सर्वत्रापि भूकम्पः कथं न स्यात् । ‘अन्तर्जलनिवासिसत्त्वकृतो भूकम्पःदिग्गजविश्रान्तिसमुद्भव' इत्यादिसंहितापुराणोक्तानि भूकम्पनिमित्तानि स्मृतित्वाविशेषेण यत्किञ्चिद्भूमिखण्डकम्पविषयदानेनैव संभावनीयानि ।

 एतेषु पक्षेषु पापसञ्चयेन सञ्जातभारातिशयभूमिखण्डधरणखिन्नत्वादविश्रान्तिरावश्यकी शेषस्य दिग्गजानाञ्च ।

 जलान्तर्गतसत्त्वानां लोकाइप्टेन तादृशभूमिकम्पकर्तुत्वमिति कल्प्यम्। भूकम्पे भूचलनशब्दो लाक्षणिकः । अङ्गस्फुरणवद् भूमिखण्डविशेषे कम्पः प्रतीयते न तु स्थानान्तरचलनं भूखण्डस्य। भूमेश्चेतनं स्वरूपान्तरमप्यस्ति । भूमेब्रह्मलोकगमनश्रवणाद् भगवन्नाम ममैतत्त्वया कृतं यदचलेति, तत्र तथेति भूमिवाक्यश्रवणप्रामाण्यात् ।

  यद्यपि ब्रह्मलोकगमनं, ब्रह्मणा भूमेः संवादोऽर्थवादस्तथापि भूतार्थवादप्रामाण्याद्देवताविग्रहादिसिद्धिवद् भूमेविंग्रहादि सिद्धयत्येव ॥

अर्थवादस्त्रिविधःगुणवादानुवादभूतार्थवादभेदात् । तथाहुः—
विरोधे गुणवादः स्यादनुवादोऽवधारिते ।
भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः ॥।

 इति । ‘यजमानः प्रस्तरः' इत्ययं गुणवादः ॥ ‘**वायुर्वेक्षेपिष्टा देवता” इत्ययमनुवादः । “**वज्रहस्तः पुरन्दरः” इत्ययं भूतार्थवादः । विधेयस्तुतिपराणामर्थवादानां स्तुतिद्वारभूतेऽर्थे तात्पर्याभवेऽपि प्रामाण्यं तिष्ठत्येव । विदर्भदेशे गन्तव्यमिति तात्पर्येण प्रयुक्तस्य सौराज्यरम्यो विदर्भ देश इति वाक्यस्य प्रत्यक्षसिद्धे सौराज्यरम्यत्वे प्रामाण्यदर्शनवत् ।

 एवं ग्रहाणामपि बिम्बेभ्योऽन्यत्स्वरूपं सिद्धयति । भूमिचेतनस्वरूपेणाधिष्ठितं सर्वाधारभूमण्डलस्वरूपं विहगादिवद् अन्तरिक्षे स्थातुं कथं न प्रभवेत् । भूम्यन्तर्गताधारेऽस्माकं न कापि क्षतिरिति भचक्रस्याधारे स्खलितस्य भ्रमणं , नोपपद्यत इति भाष्येण] स्पष्टमेवाभिहितम्।

हिर*ण्यगर्भः समवर्त्तताग्रे भूतस्य जातः पतिरेक आसीत्' ।
“स*दाधार पृथिवी द्यामुतेमा कस्मै देवाय हविषा विधेम' ।
इति श्रुतेहिरण्यगर्भस्याधारत्वं प्रतीयते ।
यो' रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाविवेश तस्मै
रुद्राय नमोऽस्तु इत्यादि श्रुतिभिर्भूम्यन्तर्यामितया रुद्रस्यापि प्रतीयते ॥।


१. तै० सं० ३॥४॥३॥२ ।।   २. तै० ब्रा० २॥६॥७॥२ ॥

३. शु० य० सं० १३४ ॥   २ ४. ऋ० सं० १०॥१२१॥१ यजु० सं० १२॥१०२ ।।

५. तै० सं० ५५.९३ ।।