स' भूमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् ।
इति श्रुतिभिविष्णोराधारत्वं प्रतीयते। क्वचित्पुराणविशेषे भूमेरधस्तादाधारपरम्परास्वीकरण प्रतीयते तत्।
‘मूर्तो धत्त चेद्धरित्र्यास्तदन्यः' ।
इत्यनेन निराकरिष्यते। मूर्ताधारपरम्परास्वीकारेऽनवस्थादोषो भचक्रभ्रमणासंभवश्च । शेष-कूर्म-वराहाणामन्यतमेऽन्त्ये शक्तिकल्पनाद् भचक्रभ्रमणे न कोऽपि दोष इत्यत्र वक्ष्यते ।
अन्त्ये कल्प्या चेत्स्वशक्तिः किमाद्य' इति । शेष-कूर्मवराहावतारग्रहणकाला: पुराणेषु श्रृयन्ते । अवतारग्रहणकालात् प्राग्यथान्तरिक्षस्थितत्वं स्वशक्त्या भूमेस्तथा पश्चादपि कथं न स्यातू । शेषादीनामन्त्यस्य यदन्तरिक्षे स्थैर्यमुच्यते तत्किमतिरिक्ता शक्तिर्वा स्वभावो वा ।
तत्राद्य सा सहजा, किमागन्तुका वा । शेषादौ सहजशतरभ्युपगमे सा कथ भूमावपि न स्यात्। आगन्तुकशक्तैरभ्युपगमे भूमिचेतनस्वरूपेणाधिष्ठितं भूमण्डलमन्तरिक्षेऽस्तीति स्वीकारेणागन्तुका शक्तिर्भूमावेव कथं न स्यात् ॥ श्रुतिप्रतिपादितब्रह्मविष्णुरुद्रप्रयुक्तागन्तुकशक्तिर्वा भूमौ भवतु। भूम्यन्तर्गतशेषादिप्रयुक्तागन्तुकशक्तिर्वा भवतु, नास्माकमत्राग्रहः ॥
ग्रहकक्षाभ्रमणविरोध्याधारो भूमेरधस्तान्नास्तीति ज्योतिश्शास्त्रतात्पर्यावगमात् । शेषादौ तत्स्वरूपमात्रपर्यवसायिस्वभावाभ्युपगमे तादृशः स्वभगवो भूमावेव कल्पनीयो लाघवात् । शेषादीनामीश्वरावतारतयातिसमर्थत्वेन अन्तरिक्षस्थितत्वस्वीकारे महेशाष्टमूत्र्यन्तर्गतत्वेन भूमेरन्तरिक्षस्थितिरेव लाघवात्कल्पयितुं न्याय्येति वक्ष्यते “किं नो भूमिः साष्टमूर्तेश्च मूत्तिरिति” ।
तस्माद्भूमेरधःप्रदेशानिर्वचनान्न कुत्राप्याधारः कल्पयितुं शक्यते, सर्वत्र वा कल्पनीयः स्याद् । य एव अाधारः कल्प्यते स एव पृथिव्याधेयः कुलाचल इव कथं न स्यात् ।
कथमियं भूमेः शक्तिरित्याशङ्कां भूमिस्थैर्यदर्शनेनेति दृष्टान्तपुरःसरं निराकरिष्यते ‘‘यथोष्णताकनिलयोः' इति । भूमौ चेदचलत्वं तदा तदंशेऽपि किं न स्यात् तोयांशे द्रवतेतिवद् आशङ्का तु चुम्बकपाषाणविशेषस्यैव लोहाकर्षणं दृष्टं नान्यस्येतिवत् । मृत्पिण्डस्याचलं नास्ति सर्वचराचरनिवासभूमेरेखाचुलत्वमिति कल्पनात् सुपरिहरैवं। अन्तरिक्षस्थितं गुरुवस्तु न पतत्येव सत्यादिलोकवद् ग्रहनक्षत्रादिबिम्बवद्वा । अन्तरिक्षस्थितस्य मृत्पण्डादेभूमौ पतनं न गुरुत्वाधिकरणत्वेन, किन्तु भूम्याकर्षणेनेति भूमेराकर्षकाभावात्पतनमेव न संभवतीति युक्तद्यन्तरेण प्रतिपादयिष्यते । - १. ऋ० सं० १०॥९०॥१ ॥