</ref> आकृष्टशक्तिश्च महीति। गुरुवस्तु प्रथममायाति लघु तु पश्चादिति भूमेराकर्षणशक्तिरोदृश्येवेति कल्प्यते दृष्टानुरूपकल्पनाया एव प्रामाणिकत्वात् । यया भूम्या खस्थमप्याकष्यंते तद्गतानामध:पतनमसंभावितमेव । 'आकृष्टशक्तिश्च मही'त्यनेन भूमेरधः पतनं, तिर्यगधःस्थितानां चाधः पतनशङ्का निरस्तेति भाष्यकारो वक्ष्यते च ।
मूर्ते कुधर्तरि भवेदनवस्थिकेत्यादिना 'भास्करकृतौ तदतो न युक्तम्' इति ज्ञानाधिराजेन यदुक्तं तदुपेक्षणीयम् । गोत्राचारधरा इति यदुक्तं तदप्ययुक्तम् । “शेषादयो वेदोदिता' इत्यत्र चिन्तामणिना सदाधारपृथिवीमिति श्रुतिर्दाशता नानया श्रुत्या शेषादय उच्यन्त इति सापि चिन्त्या । स्थैर्य नाम शक्तिश्च तेषामित्यनन्तशक्तिकल्पना कृता साप्ययुक्तैव । भूमेरेवैतादृशैकशक्तिकल्पनया सर्वाभिमतार्थसिद्धेः । विमलोऽयमब्धिजलस्य संचरः, समक्षाक्षप्रभावसञ्जितः, तदा व्याहेतुकत्वे सहेतुकत्वात् यदेवं तदेवं यथा दण्डजन्यो घट इत्यनेन चिन्तामणिना यदुक्तं तदप्ययुक्तम्।
यत्तु क्षीरादिसमुद्रारम्भकं स्मृतिप्रणेतृप्रयुक्तरसशब्दाभिधेयद्रव्यत्वाल्लवणवदिति यदुक्तं तदप्ययुक्तम् । गुड-शर्करा-नवनीत-समुद्राः कथं न भवेयुः, दधिघृतसमुद्रावपि न स्याताम् ॥ स्वादूदकसमुद्रः कथमपि न सिद्धयेतेति यत्किञ्चिदेतत् ।
ननु पुराणे भूम्याः पातालगमनं श्रुयते । पातालादुद्धारो वराहकृत इति श्रृंयते तत्कर्थ भवदुतनये घटत इति चेत्। उच्यते-द्वित्रिभूमिकग्रहे उपरिगभूमेरध:- पतनमिव भूखण्डविशेषस्य पातालगमनं स्तम्भाद्याधारकत्वेनोध्र्वगभूमेरुद्धार इव भूखण्डविशेषस्य वराहेणोद्धार इति सर्व समञ्जसम् ।
तस्माज्ज्योतिश्शास्त्रण भचक्रभ्रमणविरोध्याधारो भूमेर्निराक्रियते । पुराणे भूम्यन्तर्गता एवाधाराः स्वीकृता इति सिद्धम्। मन्दधियस्तु तात्पर्यमजानन्तो भ्राम्यन्तु नाम ।
किमाकारेति । स्पष्टम् । संसिद्धात् द्युगणाद् इत्यादि प्रश्नाः स्पष्टाः ॥ १-१० ।। |
अथ भुवनकोशः
अथ प्रथमप्रश्नस्य पृथ्वीसंस्थानोपपत्तेरुत्तरं विवक्षुरादिसर्गे पृथिव्यादीनां तत्त्वानामादितत्व निखिलजगज्जननैकबीज परं ब्रह्म मनसा प्रणिपत्यादी तावत् तज्जयमाह--
यस्मान् क्षुब्धप्रकृतिपुरुषाभ्यां महानस्य गांभेऽहंकारोऽभूत् खकशिखिजलोव्र्यस्ततः संहतेश्च । |