पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/386

एतत् पृष्ठम् अपरिष्कृतम् अस्ति



३४४
सिद्धान्तशिरोमणौ गोलाध्याये


मनुजा मानवाः । अादित्या देवाः ॥ दैत्या असुराः । तैः समेतं समन्तात् तिष्ठति । शेषं स्पष्टार्थम्। २-३ इदानों पुराणेषु भूमेराधारपरंपरा या पठिता तां निराकुर्वन्नाहमूतों

 चेद्धरित्र्यास्ततोऽन्यस्तस्याप्यन्योऽस्यैवमत्रानवस्था ।
अन्त्ये कल्प्या चेत् स्वशक्तिः किमाद्ये किं नो भूमेः साष्टमूर्तेश्च मूर्तिः' ॥४॥ ।।

वा० भा० - स्पष्टम् । ४ ।।

इदानी कथमियं भूमेः स्वशक्तिरित्याशङ्क परिहरन्नाह —

 यथोष्णताकानलयोश्च शीतता विधौ द्रुतिः के कठिनत्वमश्मनि ।
मरुच्चलो भूरचला स्वभावतो यतो विचित्रा बत वस्तुशक्तयः३ ॥५॥।।।।


आकृष्टिशक्तिश्च मही तया यत् खस्थ गुरु स्वाभिमुखं स्वशतया ।
आकृष्यते तत्पततीव भाति समे समन्तात् क पतत्वियं खे।६।।।


वा० भा०-पूर्वश्लोकः सुगमः । अाकृष्टिशक्तिश्च महीत्यनेन भूमेरधःपतनं तत्तिर्यगधः स्थितानां चाध:पतनशङ्का निरस्ता । ६।।।


बौद्धादियुक्तिमाहभपञ्जरस्य भ्रमणावलोकादाधारशून्या कुरिति प्रतीतिः ।
खस्थं न दृष्टं च गुरु क्षमातः खेऽधः प्रयातीति वदन्ति बौद्धाः ।॥७॥।।


द्वौ द्वी रवीन्दू भगणौ च तद्वदेकान्तरौ ताबुदयं व्रजेताम् ।
यदब्रुवन्नेवमनम्बराद्या ब्रवीम्यतस्तान् प्रति युक्तियुक्तम् ॥८॥।।

१. अत्र श्रीपति:-

‘धर्ता धरित्र्या यदि हन्त मूर्त्तस्तस्यापरस्तस्य परस्ततोऽन्यः ॥ एवं हि तेथामनवस्थितिः स्यादतोऽत्र युक्ता भुव एव शक्तिः' ॥ सि० शे० १५ अ० २० श्लो० ।

२. अत्र श्रीपति: - उष्णत्वमकशिखिनो शिशरत्वमिन्दौ काठिन्यमश्मनि नभस्वति चश्चलत्वम् । नैसर्गिकी च पयसि द्रवता तथेह निहतुरेवमवने: स्थितिरन्तरिक्षे । सि० शे० १५ अ० २१ श्लो० ॥

३. अत्र श्रीपतिः अधः पतन्त्याः स्थितिरस्ति नोव्य नभस्यनन्तेऽत्र वदन्ति जैनाः । द्वौ द्वौ रवीन्दू द्विगुणां भसंस्थां चतुर्भुजस्तम्भनिभं च मेरुम्। दो चन्दा दो सुज्जा जैनवाक्यम् । सि० शे० गो० १५ अ० ११ श्लो० ।