पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/387

एतत् पृष्ठम् अपरिष्कृतम् अस्ति



३४५
भुवनकोशः


वा० भा०--भूमेः समन्ताद्वर्तमानस्य भपञ्जरस्य भ्रमणान्यथानुपपत्या निराधारा भूरिति तेषा प्रतीतिरभूत् । तथाकाशस्र्थ गुरु वस्तु किमपि न दृष्टम् । अतो भूरधो यातीति बौद्धा वदन्ति । यथा नौस्थो नावं गच्छन्तीमपि न वेत्ति तथा भूस्थो जनो न वेतीति । तथा द्वौ सूर्यों । द्वी चन्द्रमसौ। चतुष्पश्चाशन्नक्षत्राणि । चतुर्भुजस्तम्भनिभो मेरुः । एकान्तरकोणस्थी सूर्यों मेरुकोणवशेनैकान्तरौ तावुदर्य गच्छत इति जैनाचाबुवन्। ७-८ ।

इदानी तेषा युक्तिभङ्गमाहभूः खेऽधः-

खलु यातीति बुद्धिबौद्ध मुधा कथम् ।
जाता यातं तु दृष्ट्रापि खे यत् क्षिप्तं गुरु क्षितिम्' ॥९॥ ।।

वा० भा०-- यदि भूरधो याति तदा शरादिकमूध्र्व क्षिप्त पुनर्भुवं नैष्यति। उभयोरथो गमनात् ॥ अथ भूमेर्मन्दा गतिः शरादे: शीघ्रा । तदपि न । यतो गुरुतरं शीघ्रं पतति । उर्य्यति। गुर्वी । शरादिरतिलघु: । रे बौद्धवं दृष्ट्रवापि भूरधो यातीति बुद्धिः कथमियं तव वृथोत्पन्ना ।९। इदानी जैनयुक्तिभङ्गमाह--

किं गण्यं तव वैगुण्यं द्वैगुण्यं यो वृथाकृथाः।
भाकेन्द्नां विलोक्याहृा ध्रुवमत्स्यपरिभ्रमम् ।।१०।। ।।

वा० भा०--यदा भरणीस्थो रविर्भवति तदा तस्यास्तमयकाले ध्रुवमत्स्यस्तियैक्स्थी भवति । तस्य मुखतारा पश्चिमतः । पुच्छतारा पूर्वतः । तदा मुखतारासूत्रे रविरित्यर्थः । अथ निशावसाने मुखतारा परिवत्र्य पूर्वतो याति । पुच्छतारा पश्चिमतो याति । ततो मुखतारासूत्रगतस्येवार्कस्योदयो दृश्यते । अतो द्वी द्वौ सूर्यावित्यनुपपन्नम् । अत उत्त कि किमेक तव वैगुण्य गण्यम्। येन ध्रुवमत्स्यपरिभ्रभ दृष्ट्रवापि भाकन्दूनां द्वैगुण्यमङ्गीकृतम्। १० ॥

इदानी भूगोलस्य समता निराकुर्वन्नाह--

यदि समा मुकुरोदरसन्निभा* भगवती धरणी तरणिः क्षितेः ।
उपरि दूरगतोऽपि परिभ्रमन् किमु नरैरमरैरिव नेक्ष्यते ॥११।। ।।

१. अत्र श्रीपतिः

'शरादिरूध्र्व निहितः कदाचिदायाति भूमि न तदीयपक्षे । विहङ्गमा न स्वकुलायमापुरसत् प्रलापो हि तदुक्तिरस्मात्' ॥ सि० शे० गो० १५ अ० · १२ श्लो० ।।

२. अत्र श्रीपति:-

आदशौंदरसंनिभा भगवती विश्वंभरा कीर्तिता कैश्चित् कैश्चन कूर्मपृष्ठसदृशी कैश्चित् सरोजाकृतिः । सि० शे० गो० १५ अ० ८ शलो० ।। मुकुरतलसमा चेत्। सर्वतो मेदिनीयं कनकगिरिरयं तद्दृष्टियोग्या भवेन्न:। सि० शे० गो • १५ अ० ९ श्लो० ॥

सि० ۔-Y^6