श्रृङ्गोन्नतिग्रहयुतिग्रहणोदयास्तच्छायादिकं परििधना घटतेऽमुना हि । |
वा० भा०-स्पष्टम्। १५-१६ ॥ इदानी भूगोले पुरनिवेशमाह-
लङ्का कुमध्ये यमकोटिरस्याः प्राक् पश्चिमे रोमकपत्तनं च । |
कुवृत्तपादान्तरितानि तानि स्थानानि षड्गोलविदो वदन्ति । |
यो तत्र तिष्ठत्यवनी तलस्थामात्मानमस्या उपरि स्थितं च । |
शिरस्काः कुदलान्तरस्थाश्छायामनुष्या इव नीरतीरे । |
वा० भा०- सुगमम् । १७-२० ॥
इदानों द्वीपानां समुद्राणां च स्थानमाह२भूमेरर्धं क्षारसिन्धोरुदक्स्थं जम्बूद्वीपं प्राहुराचार्यवर्याः '। |
3लवणजलधिरादौ दुग्धसिन्धुश्च तस्मादमृतममृतरश्मिः श्रीश्च यस्माद्भभूव । |
१. अत्र श्रीपतिः
क्षितिपरिधिचतुर्थे प्राचि लङ्कानगर्या निवसति यमकोटिः पश्चिमे रोमकञ्च । उदगमरगिरीन्द्रो दक्षिणे वाडवाग्निः क्षितिपरिधिदलेऽधः पत्तनं सिद्धपूर्वम्’ । सि० शे० १५ अ० ३० श्लो० ।।
२. अत्र श्रीपतिः ‘जम्बूद्वीपो लवणजलधेर्मध्यतो मेरुमध्यः शाकस्तस्माद्बहिरथ कुशः क्रौञ्चनामा ततश्च । शाल्मल्याख्यो भवति परितश्च.थ गोमेदसंज्ञस्तस्माद्बाह्ये मुनिमिरुदितः सप्तमः पुष्कराख्यः सि० शे० १५ अ० ३३ श्लो० ।।
३. अत्र श्रीपतिः - लवणजलधिराद्यो दुग्धसिन्धुर्द्वितीयस्तदनु दधिसमुद्रस्सर्पिरब्धिश्चतुर्थः अथ रसनिधिरिक्षोः पञ्चमोऽन्यः सुराया जलधिरथ तदन्ते ससमः स्वादुतोय:' सि० शे० १५ अ० ३२ श्लो० ।।