दध्नो घृतस्येक्षुरसस्य तस्मान्मद्यस्य च स्वादुजलस्य चान्त्यः । |
चञ्चत्फणामणिगणiशुकृतप्रकाशा एतेषु सासुरगणाः फणिनो वसन्ति । |
शाकं ततः शाल्मलमत्र कौशं क्रोञ्चं च गोमेदकपुष्करे च । |
वा० भा० स्पष्टम्। २१-२५ ।
इदानी जम्बूद्वीपमध्ये गिरिनिवेशवशेन नव खण्डान्याह—
लङ्गादेशाद्धिमगिरिरुदग्हेमकूटोऽथ तस्मातू तस्माच्चान्यो निषध इति ते सिन्धुपर्यन्तदैघ्र्याः । एवं सिद्धादुदगपि पुराच्छूङ्वच्छुक्लनीला वर्षाण्येषां जगुरिह बुधा अन्तरे द्रोणिदेशान् ।।२६।।
भारतवर्षमिदं ह्युदगस्मात् किन्नरवर्षमतो हरिवर्षम् । |
माल्यवाश्व यमकोटिपत्तनाद्रोमकाच्च किल गन्धमादनः । |
माल्यवञ्जलधिमध्यवर्तिं यत् तत् तु भद्रतुरगं जुगुर्बुधाः । |
निषधनीलसुगन्धसुमाल्यकैरलमिलावृतमावृतमाबभौ । |
वा० भा०-अत्र भूगोलस्यार्धमुक्तरं जम्बूद्वीपम्। तस्य क्षाराब्धेश्च सन्धिनिरक्षदेशः। तत्र रोमकं सिद्धपुरं यमकोटिरिति पुरचतुष्टयं भूपरिधिचतुर्थाशान्तरं किल कथितम् । तेभ्यः पुरेभ्यो यस्यां दिशि मेरुः सोत्तरा । अतो लङ्काया उत्तरतो हिमवान् नाम गिरिः पूर्वापर
सिन्धुपर्यन्तदैध्र्योऽस्ति । तस्योत्तरे हेमकूटः । सोऽपि समुद्रपर्यन्तदैर्घ्यः । तथा तदुत्तरे निषधः । तेषामन्तरे द्रोणिदेशा वर्षसंज्ञाः । तत्रादौ भारतवर्षम् ॥ तदुत्तरम् किन्नरवर्षम् ।
१. अत्र श्रीपतिः उत्तरायतगिरिश्च माल्यवान् कीतितः स यमकोटिपत्तने । रोमके च खलु गन्धमादनो नीलशैलनिषधावधी च तौ ।
। सि० शे० १५ अ० ३८ श्लो० ।।