ततो हरिवर्षमिति । एवं सिद्धपुरादुत्तरतः शृङ्गवान् नाम गिरिः । ततः श्वेतगिरिः ॥ ततो नीलगिरिरिति । तेऽपि सिन्धुपर्यन्तदैध्र्याः ॥ तेषामन्तरे च वर्षाणि । तत्रादौ कुरुवर्षम् ।
तदुत्तरे हिरण्मयम् । ततो रम्यकमिति । अथ यमकोटेरुत्तरतो माल्यवान् नाम गिरिः ।
स तु निषधनीलपर्यन्तदेध्र्यः । तस्य जलधेश्च मध्ये भद्राश्वं वर्षम् । एवं रोमकादुत्तरतो ग न्धमादनः । तस्य जलघेश्च मध्ये केतुमालम् । एवं निषधनीलमाल्यवद्गन्धमादनैराड्बृतमि लावृतं नाम नवमखण्डम् । सा स्वर्गभूमिः ॥
अतस्तत्र देवक्रीडागृहाणि । शेषं स्पष्टम् ।। *२६-३०॥
इदानों मेरुसंस्थानमाह -
इह हि मेरुगिरिः किल मध्यगः कनकरत्नमयस्त्रिदशालयः । |
विष्कम्भशैलाः खलु मन्दरोऽस्य सुगन्धशैलो विपुलः सुपाश्र्वः । |
जम्बूफलामलगलद्रसतः प्रवृत्ता जम्बूनदी रसयुता मृदभूत् सुवर्णम् । |
वनं तथा चैत्ररथ विचित्र तेष्वप्सरो नन्दननन्दनं च । |
सरांस्यथैतेष्वरुणं च मानसं महाहृदं श्वेतजलं यथाक्रमम् । । |
सद्रत्नकाश्वनमयं शिखरत्रयं च मेरौ मुरारिकपुरारिपुराणि तेषु। |
१. अत्र श्रीपतिः- −
‘हरिविरिञ्चमहेश्वरमन्दिरैः कनकरत्नमयैस्त्रिदशालयः । त्रिशिखरो गिरिरेष विराजते शतमखादिदिगीशपुरावृत:'।
सि० शे० १५ अ० ४५ श्लो० ।।
२. अत्र श्रीपतिः
‘तेषूद्यानं चैत्रपूर्वं रथं च गीर्वाणस्त्री नन्दनं नन्दनं च । अन्यद्धृत्याख्यं च वैभ्राजसंज्ञ विभ्राजन्ते तानि कल्पद्रुमैश्च' ।
सि० शे० १५ अ० ४३ श्लो० ।।
३. अत्र श्रीपतिः--
‘सरोरुणाभाह्वयमेषु मानसं मृहाह्रदं चापि सितोदसंज्ञितम् । व्रजन्ति येषु प्रतिवासरं स्त्रियः सहाप्सरोभिर्जलकेलिलालसाः' ।
सि० शे० १५ अ० ४२ श्लो० ॥