वर्णव्यवस्थितिरिहैव कुमारिकाख्ये शेषेषु चान्त्यजजना निवसन्ति सर्वे । माहेन्द्रशुक्तिमलयर्क्षकपारियात्राः सह्यः सविन्ध्य इह सप्त कुलाचलाख्याः॥४२॥
वा० भा० - स्पष्टम् ॥ ४१-४२ ॥
इदानी लोकव्यस्थामाह --
भूर्लोकाख्यो दक्षिणे व्यक्षदेशात् तस्मात् सौम्योऽयं भुवः स्वश्च मेरुः । |
वा० भा०-स्पष्टम् ।
यदिदमुक्ततं तत् सर्वं पुराणाश्रितम् ॥ ४३ ॥
इदानी दिग्व्यवस्थितिमाह--
लङ्कापुरेऽर्कस्य यदोदयः स्यात् तदा दिनार्धं यमकोटिपुर्याम् । |
यत्रोदितोऽर्कः किल तत्र पूर्वा तत्रापरा यत्र · गतः प्रतिष्ठाम् । |
वा० भा०-स्पष्टम् । इदानी विशेषमाह-–
यथोञ्जयिन्याः कुचतुर्थभागे प्राच्यां दिशि स्याद्यमकोटिरेव! |
तथैव सर्वत्र यतो हि यत् स्यात् प्राच्यां ततस्तन्न भवेत् प्रतीच्याम् । |
वा० भा०- -इष्टप्रदेशान्मेरोरभियुखीमुत्तरां दिशं निश्चलां कृत्वा निरक्षाभिमुखीं दक्षिणां च निश्चलां कृत्वा तन्मत्स्यात् प्राच्यपरा साध्या । एवं यत् प्राच्यग्रे चिह्नं भवति ततः पुनरुत्तरांदक्षिणां च साधयित्वा यावत् प्राच्यपरा साध्यते तावत् पूर्वरेखायां न पतति । उत्तरायाश्चलितत्वात् प्राच्यपरा चलिता भवतीत्यर्थः । शेषं सुगमम् ॥ ४६-४७ ।
१. अत्र श्रीपतिः--
'भवति विषुवद्याम्यो लोको रसातल (ग) श्च भूरयमपि भुवो मेरुः स्व. स्यान्महश्च तथोपरि' । सि० शे० १५ अ० ४८ श्लो० ॥
२. अत्र श्रीपतिः--
मेरी रविभ्रमति भूजगत: समन्तादाशा न काचिदपि तत्र विचारणीया । पूर्व हि दर्शनमुपैति स चेहपूर्वा तत्रास्ततो भवति सैव कथं प्रतीची ॥