इदानों चक्रध्रमणव्यवस्थामाह
निरक्षदेशे क्षितिमण्डलोपगौ ध्रुवौ नरः' पश्यति दक्षिणोत्तरौ । |
वा० भा०-उदग्दिर्श याति यथा यथा नर इत्यनेनापसारयोजनैरनुपात: सूचितः । यदि भूपरिधियोजनैश्चक्रांशा लभ्यन्ते तदापसारयोजनैः किमिति । फलमक्षांशा. ॥ यदि चक्रांशमितपरिधिना भूपरिधिर्लभ्यते तदाक्षांशैः किमिति । फलं निरक्षदेशस्वदेशयोरन्तरयोजनानि स्युः । शेषं स्पष्टम् । एवं निरक्षदेशात् क्षितिचतुर्थाशे किल मेरुः । तत्र नवतिः ९० पलांशाः ॥ ४८-५० ।।
अतस्तत्र ध्रुवक्षसंस्थानमाह---
सौम्यं ध्रुवं मेरुगताः खमध्ये याम्यं च दैत्या निजमस्तकोध्वें। |
वा० वा०-भूमेः पिण्ड इति । भूमिपिण्डः पाञ्चभौतिकः । तत्र भूमिपिण्डे चत्वारो भागाः कल्पिताः । भूभागबहुत्वाद्भूमित्वव्यवहारः । ग्रहाणामेकमार्गगामित्वस्वीकारे भेदयोगसञ्जातबिम्बसंयोगेन परस्परगमनप्रतिबन्धात् मन्दाच्छीघ्रग्रहस्याग्रगामित्वोपलम्भो बाधितः स्यात् ।। सूर्यग्रहणानुभूतलम्बन-नत्युपलम्भश्च बाधितः स्यात् ।
चक्रादियन्त्रण ग्रतोन्नतांशकला ज्ञात्वा त्रिप्रश्नोक्त्या च ज्ञात्वा तदन्तरेण यदि भूव्यासार्द्धयोजनानि लभ्यन्ते तदा गतिकलाभिः किमिति त्रैराशिकेन ग्रहाणां योज
१. ध्रुवौ यतः पश्यतीति पाठान्तरम् ।
२. अत्र श्रीपतिः
‘याम्योत्तरस्थौ क्षितिजाश्रितौ ध्रुवौ सदैव पश्यन्ति निरक्षदेशजाः ॥'
३. अत्र श्रीपति:-
‘सौम्यं हि मेषाद्यपमण्डलार्धं पश्यन्त्यमी सव्यगमेव देवाः । तुलादिकं दक्षिणमन्यदर्धं सदैव दैत्यास्त्वपसव्यवत्ति' ।