पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/395

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५३
भवनकोशः

नात्मिकगतिसाम्योपलम्भः । कक्षैक्यस्वीकारात्तुल्यकालेन सर्वेषां भगणाभोगापत्तेः । कलात्मकगतिभेदेऽपि कथं बाधितो न स्यात् ।

 कक्षेक्ये कलात्मकगतिभेदोपलम्भोऽपि न स्यात् । ईदृशानेकप्रत्यक्षाबाधाय ग्रहाणां कक्षाभेदः स्वीकृतः । चन्द्रापेक्षया बुधस्पष्टगतिन्यूंना तस्यापेक्षया शुक्रस्येति “शशाङ्क ज्ञ-कवि-रवि-कुजेज्यार्किनक्षत्रकक्षावृत्तैवृत्त" इत्युक्तम् । वृत्त इति कन्दुकाकारता भूमेरुक्ता ।

निरक्षदेशे क्षितिमण्डलोपगौ ध्रुवौ नरः पश्यति दक्षिणोत्तरौ ।
तदाश्रितं खे जलयन्त्रवतथा भ्रमदूचक्र निजमस्तकोपरि ।
उदग्दिशं याति यथा यथा नरस्तथा तथा खान्नतमृक्षमण्डलम् ।
उदग्ध्रुवं पश्यति चोन्नतं क्षितेस्तदन्तरे योंजनजाः पलांशकाः ॥

 इत्यनेन भूमेः कन्दुकाकारत्वे युक्ति वक्ष्यते। चतुरस्राकारायां मुकुराकारायां वा भूमौ ध्रुवोन्नमनमुदग् यातुर्नावकल्प्यते । कन्दुकाकारत्वै प्रत्यक्षं यद् ध्रुवोन्नमनं तदवकल्प्यते । भू:कन्दुकाकारा पूर्वापरं यातुरुदग्वृतिध्रुवौच्यसाम्यजनकत्वे सत्युदग्यातुरौच्योपजनकत्वात् । यथोदग्धृतदीपस्तिर्यक्परिभ्रममाणः कीटो घटः कपित्थं वेति चिन्तामणिना कन्दुकाकारत्वेऽनुमानं सम्यगुपन्यस्तम् ।

 नापीयं भूः कन्दुकाकारा समबुद्धिजनकत्वात् मुकुरवदित्यनुमानेनापि मुकुराकारत्वं सम्पूर्णभूमेन संभवतीति।

समो यतः स्यात् परिधेः शतांशः पृथ्वी च पृथ्वी नितरां तनीयान् ।
नरश्च तत्पृष्ठगतश्च तस्मात् समैव तस्य प्रतिभात्यतः सा ।
इत्यनेन वक्ष्यते ।
किञ्च मुकुराकारत्वे देवानामिव मनुष्याणां षण्मासपर्यन्तं कथं दिनं न स्यात् ।

मनुष्याणामिव देवानां षष्टिघटीमितं वा कथं न स्यात् । वक्ष्यति च

यदि समा मुकुरोदरसन्निभा भगवती धरणी तरणिः क्षितेः ।
उपरि दूरगतोऽपि परिभ्रमन् किमु नरैरमरैरिव नेक्षते ॥

 इति । पुराणे लक्षयोजनपरिमार्ण जम्बूद्वीपम् । जम्बूद्वीपमध्यगो मेरु; । मेरुमूले विस्तारः षोडशसहस्रयोजनः । उपरि द्वात्रिशत्सहस्रयोजनविस्तारः । भूमेरन्तः षोडशसहस्रयोजनः । भूमेरुपरि मेरोरुच्छायश्चतुरशीति सहस्रयोजनतुल्यो भूमेरधस्तादुपरि च तुल्य एवोक्त: । भूमेरुपरि लक्षयोजनान्तरे रक्भ्रिंमति । मेरोदूरत: समन्तात् प्रदक्षिण रविभ्रमति । लङ्काकोंदयाच्चरकालेन रेखाकदियः, न तदुयात् स्वदेशाकॉदयः, प्रत्यक्षदेशान्तरकालेन दृश्यत इति युक्तं भूमेः कन्दुकाकारत्वम् ।

 मुकुराकारत्वे सर्वत्राप्युदयास्तौ युगपदेव भवेतामिति 'दूरगतोऽपि परिभ्रमन् किमु नरैरमरैरिव नेक्ष्यत" इत्युक्तम् । ये तु मेरुवशेन रात्रिर्भवतीत्याहुस्तान् सयुक्तिकं वक्ष्यते

 सि० - ४५