वस्तुतस्तु पञ्चविशतिकोटिमिते विस्तारे भूवृत्तेऽष्टसप्ततिकोटिमितपरिमाणं भवति । केचितु दशकोटिमिता काञ्चनभूमिः स्वादूदकान्तादुभयत्रेति वदन्ति । तेन पञ्चकोटिमितैव काञ्चनभूमिरेकस्मिन् प्रदेशे भवति । मानसोत्तरपर्वतान्तात् कतिचिद्योजनानि सप्तद्वीप-सप्तसागरपरिमाणे प्रागुक्ते संयोज्य पञ्चकोटियोजनमिव संयोज्य जम्बूद्वीपमध्याद्भूमिपरिध्यन्तं चतुर्दिक्षु कोटयष्टकमितान्येव योजनानि व्यावर्णयन्ति । तेन षोडशकोटियोजनमितव्यासः पञ्चाशत्कोटिमितभूपरिधिश्च भवति ।
भारते भीष्मपर्वणि तु जम्बूद्वीपप्रमाणं लक्षमितम् । ततः क्षारसमुद्रो लक्षद्वयात्मक इत्यादि यदुतं तद् वामनपुराणाभिप्रायेण । तथा च वामनपुराणे-
तल्लक्षयोजनानाञ्च प्रमाणेन निगद्यते । |
सूर्यसिद्धान्ते पञ्चसहस्रयोजनोऽयं भूपरिधिरभिहितः । अनयोः पुराण-सिद्धान्ताभिहितभूगोलपरिमाणयोः स्मृतित्वाविशेषेणागमप्रामाण्यतुल्यत्वेऽपि केवलव्यतिरेक्यनुमानापरपर्यायेण त्रैराशिकेन स्वमतं दृढयन्नाह-
पुरान्तरं चेदिदमुक्तरं स्यात्तदक्षविश्लेषलवैस्तदा किम्। |
भूः पञ्चसहस्रयोजना मध्यरेखास्थचतुर्दशयोजनान्तरे लवोन्मितध्र वोन्नत्यन्तरजनकत्वे सति चक्रांशमितपरान्तरजनकत्वाद्यन्नैवं यथाक्षेत्रमिति । देशान्तरघटिका देशान्तरयोजनानि च ज्ञात्वायद्येताभिर्घटीभिरेतानि योजनानि तदा षष्टिघटीभिः किमिति स्पष्टभूपरिधियोजनानि भवन्ति । तानि त्रिज्यागुणानि लम्बज्याभक्तानि भूपरिधियोजनानि भवन्ति । भूः पञ्चसहस्रयोजना मध्यरेखातः पूर्वतो दशयोजनान्तरे सपञ्चांशसप्तपलोन्मितं प्रति रव्युदयान्तरजनकत्वे सति षष्टिघटीमितपरान्तरजनकत्वाद् यन्नवं तन्नैवं यथाक्षेत्रमिति । उज्जयिन्यां सार्द्धद्वाविशतिमितपलांशाः । ते तु चक्रांशानां षोडशांशमिता इति लङ्कातो भूपरिधिषोडशांशे उज्जयिनी स्यात् । लङ्काऽवन्त्यन्त२ षोडशगुणं । भूपरिधिः स्यात्पुराणे किमित्यधिक उत्त इत्याह-
निरक्षदेशात् क्षितिषोडशांशे भवेदवन्ती गणितेन यस्मात् । |
अस्मदुक्तभूपरिधिसाधितश्शृङ्गोन्नत्यादिगणितं संवदति नान्यसाधितमिति स्वोदितभूपरिधिप्रामाण्यमन्वयव्यतिरेकसिद्धमस्तीत्याहुगणितप्रवर्तका इत्याह-