पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/402

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६०
सिद्धान्तशिरोमणी गोलाध्याये

करतलकलितामलकवदमल सकल विदन्ति ये गोलम्।
दिनकरकरनिकरनिहततमसो नभसः परिधिरुदितस्तैः ॥
ब्रह्माण्डमेतन्मितमस्तु नो वा कल्पे ग्रहः क्रामति योजनानि ।
यावन्ति पूर्वैरिह तत्प्रमाणं प्रोक्तं खकक्षाख्यमिदं मतं नः ॥
ग्रहस्य चक्रेविहृता खकक्षा भवेत्स्वकक्षानिजकक्षिकायाम् ।
ग्रहः स्वकक्षामितयोजनानि भ्रमत्यजस्रं परिवर्त्तमानः ॥

 इति । एव गतियोजनज्ञाने भूव्यासार्द्धज्ञानं सुखेन भवत्येव। आर्यभट-सौरसिद्धान्तयोर्योभूप्रमाणभेदः स योजनलघुत्वालघुत्वकृतः ॥ ५१ ।।

 इदानी भूपरिचिमानं प्राककथितमपि विशेषार्थमनुवदति स्म-- ।

 प्रोक्तो योजनसंख्यया कुपरिधिः सप्ताङ्गनन्दाब्धय-४९६७

 स्तद्वयासः कुभुजङ्गसायकभुवः सिद्धांशकेनाधिकाः १५८१ ३ ।।

 पृष्ठक्षेत्रफलं तथा युगगुणत्रिंशच्छराष्टाद्रयो ७८५०३४

 भूमेः कन्दुकजालवत् कृपरिधिव्यासाहतेः प्रस्फुटम् ॥ ९२ ।।  वा० भा०-भूव्यासः कुभुजङ्गसायकभूमितानि योजनानि चतुर्विशत्यंशयुतानि १५८१ ३ । परिधिः ससाङ्गनन्दाब्धिमितानि ४९६७ । ब्रह्मोत्तभूव्यासस्य कथं त्वदुक्तादन्यः परिधिरिति चेदत्रोच्यते । महदयुतादि व्यासार्ध प्रकल्प्य वृत्तशतांशादपि सूक्ष्मविभागस्य ज्योत्पतिविधिना ज्या साध्या । यत्संख्याकस्य विभागस्य ज्या तत्संख्यया सा गुणिता सती परिधिर्भवति'। यतः शतांशादपि सूक्ष्मॉऽशो वृत्ते समः स्यात् । अतोऽयुतद्वयव्यासे २०००० द्विकाग्न्यटयमर्तुमितः ६२८३२ परिधिरार्यभटाद्यैरङ्गीकृतः । यत् पुनः श्रीधराचार्यब्रह्मगुप्सादिभिव्यासवर्गाद्दशगुणात् पदं परिचिः स्थूलोऽप्यङ्गीकृतः स सुखार्थम् । नहि ते न जानन्तीति । तथा भूपृष्ठक्षेत्रफलं योजनात्मकं युगगुर्णात्रशच्छर ष्टाद्रयः ७८५३०.३४ । कथमिदं जातं तदाह-परिधिव्यासहतेः प्रस्फुटम् ॥ ५२ ।।

 वा० वा०-स्वमतेन भूप्रमाणमाह--

प्रोक्तो योजनसंख्यया कुपरिधिः सप्ताङ्गनन्दाब्धय
स्तद्व्यासः कुभुजङ्गसायकभुवः सिद्धांशकेनाधिकाः ॥

 इति । ब्रह्मगुप्तादिभिः प्रोक्त इति वदता न मया लक्षित इत्यर्थः । चक्रकलापरिधेद्विगुणत्रिज्या ६८७६ व्यास इवास्य भूपरिधेः सूक्ष्मप्रकारेणायं व्यास उक्तः ।

 गोलपृष्ठफलखाह-युगगुणेति । तत्र वृत्तक्षेत्रफलोपपत्तिस्तावदुच्यते । सप्सव्यासं यद्वृत्तं तत्र द्वाविंशतिमितः स्थूलपरिधिर्भवति । यत्सार्द्धत्रयव्यासार्द्धमितकर्कटककृतं


१. अत्र बापूदेवोक्त सूक्ष्मपरिध्यानयनोपयोगिपद्यम्--

 त्रिज्या रूपमिता यत्र चापस्पधिगुणस्य च ।

 छवाढयस्य मूलं चापार्धस्पधिनीशिञ्जिनी भवेत् ॥