सूर्यसिद्धान्ते ग्रहनक्षत्रसृष्टिरुत्ता । वासुदेवः परं ब्रह्योति । तन्मूत्तिसङ्कर्षणः प्रकृतिपुरुषयोः क्षोभकस्तदन्तर्गतॊऽस्ति । पञ्चविंशात्समुदायादयं परोऽस्ति । पुरुषः प्रकृतिर्महानहङ्कारः पञ्चतन्मात्राणि । पृथिव्यादीनि पञ्चमहाभूतानि । घ्राणरसन्चक्षुःश्रोत्रत्वक्संज्ञानि ज्ञानेन्द्रियाणि पश्च। वाक्पाणिपादपायूपस्थानि पश्व कर्मेन्द्रियाणि ।
मनस्तूभयात्मकमिति पञ्चविशो गणः । । |
तत्राण्डेऽनिरुद्धो व्यक्तीभूतः स एव हिरण्यगर्भस्त्रयीमयः कालात्मा तमो हन्ता सूर्यादित्यादिशब्दवाच्यः । स सविता जगत्स्रष्टुं अहङ्कारं ब्रह्माणमसृजत् । स सविता ब्रह्मणे वेदा वराश्च दत्ताः । सृष्टद्युर्थं ब्रह्माणमण्डमध्ये संस्थाप्य स्वयं ब्रह्माण्डं भासयन् परिभ्रमति । तेन सृष्टिनिमित्तमादौ मनः सृष्टम् ।
मनसः खं ततो वायुरग्निरापो धरा क्रमात् ।
तेजोभूखाम्बुवातेभ्यः क्रमशः पञ्च जज्ञिरे । |
पाञ्चभौतिकान्यपि बहुभागप्राधान्येन तन्मयान्युच्यन्ते ।। सूर्योऽग्निमयस्तैजसः । चन्द्रो जलमयः । भौमस्तैजसः । बुधो भूमिमयः । गुरुराकाशप्रचुरः । शुक्रो जलमयः । शनिर्वातप्रचुरः ।
नक्षत्ररूपिणं भूयः सप्तविशात्मकं वशी । |
भौमादयः पञ्चग्रहा नक्षत्राणि तथा जलमयानि यथैतेषु रविकिरणप्रतिफलनं भवति । अन्यभागत्रयापेक्षया जलभागो भूयानिति जलमयानि कथ्यन्ते। यद्वा भौमादिपञ्चग्रहास्तैजसा नक्षत्राण्यपि तेजसः शुक्लभास्वरं रूपम् । उष्णस्पर्शश्च तेजः । ईदृशं तेजः सूर्यबिम्बारम्भकं तेजसो विरलावययत्वेन कदाचिद् रविबिम्बावयवस्य विभागापत्तेभूयसां भूभागानां दृढ़पिण्डीभावापादनायोपष्टम्भकत्वमास्थेयम्। यथार्कबिम्बे न सन्तीति ।
'दिवाकरकराक्रान्तरश्मीनामल्पतेजसामिति ।
१. सू० सि० १२ अ० १३ श्लो० ।
२. सू० सि० १२ अ० २२-२३ श्लो० ।
३. सू० सि० १२ अ० २४ श्लो० । किन्तु मुद्रितग्रन्थे-‘‘अग्नीषोमी भानुचन्द्रौ ततस्त्वङ्गार कादय इति पाठान्तरमू ।
सू० सि० १२ अ० २५ श्लो० किन्तु मुद्रिते 'व्यभजद्राशि" इति पाठान्तरमस्ति ।
५. सू० सि० ९ अ० १ श्लो० किन्तु 'क्रान्तमूतनाम' इ० मु० पु० ।