पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/417

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७५
मध्यगति वासना


नन्तरं नाक्षत्राणां घटीनां षष्टश्या ६० तन्नक्षत्रं पुनरुदेति । ततोऽनन्तरं रविरुदेति । स च कियता कालेन । तदर्थमनुपातः । रविः किल क्रान्तिवृत्ते स्फुटगत्या पूर्वतो गतः । यद्यष्टादशशतानि राशिकलाः स्वोदयासुभिरुद्गच्छन्ति तदा स्फुटगतिकलाः कियद्भिरिति ॥ एवं लब्धासुभिर्भोदयानन्तरं रवेरुदयः । अत एव नाक्षत्राः षष्टिघटिकास्तैर्लब्धासुभिरधिका । रवेः स्फुटं सावनमहोरात्रं भवति । तच्चाहोरात्रं चलम् । प्रत्यहमन्यादृक् । प्रत्यहं गत्ययत्वात् प्रतिमासं राश्युदयान्यत्वाच्च । यत् पुनर्घटीषष्टया मध्यमभुक्तितुल्यासुयुतया सावनं द्युरात्रमुच्यते तन्मध्यमम् । यतोऽब्दान्ते यावन्ति स्फुटसावनानि तावन्त्येव मध्यमानि स्युः । गतीनामुदयानां च ह्रासवृध्योस्तुल्यत्वात् । तत् कथं नित्यं रविगतिलिसासमासुभिः सहितो भहः सावनाहो भवतीति लल्लादिभिरुत्तम् । स्यादेतत् । यदि विषुवन्मण्डले रविः पूर्वतो याति । तहिं विषवन्मण्डलस्यैका कलैकेनासुनोदेति । तदा रविगतिलिसासमासुभिरति वक्तुं युज्यते । तन्न युक्तम् । रविः क्रान्तिवृत्ते न याति तत्र मेषराशेः कला अष्टादशशतानि १८०० गगनभूधरषट्कचन्द्रमितैरसुभिः १६७० रुद्गच्छन्ति । अन्यस्यान्येरिांत गतिकलानामनृपा तेनासवः कर्तुं युज्यन्ते । एवं कृते सति स्फुटसावनानि तावन्त्येव मध्यमानि स्युः । तत्संख्यका झभ्त्रमतो निरेकेति । यावन्तो भभ्रमा जातास्तत्संख्यकोकोना सती सावनदिवससंख्या भवति । यतो रविः पूर्वतो गच्छन्नेकं परिवर्तं गतः । अतस्तस्योदयसंख्यैकोनेत्युपपद्यते ।। ४-७ ॥

 वा० वा०- ननु प्रवहाचेयानां ग्रहाणामाधारवशेन पश्चिमगमने युतिसिद्ध सत्यश्विनीस्थग्रहस्य भरण्यादिसंयोगदर्शनानुभूतपूर्वगमनं कर्थ संजाघटीति। यथा च पश्चिमगतिभान झटिति भवति न तथा पूर्वगतिभानं भवतीत्यतो दृष्टान्तपुरस्सरमाह। यान्तो भचक्रे लघुपूर्वगत्येति । समं भसूर्यावित्यादिवासना निरूपणमतीव स्पष्टम्।

 तथापि क्वचित् किचिदिहोच्यते ।

 ननु सौरदिनसाधिता अधिमासाश्चान्द्राः कथं भवतीत्यत्राह भाष्यकारः-- साध्यजातित्वं भजन्त इति । एकस्मिन् सौरदिवसे साधितमधिशेषं सौरस्य न भवति निरवयवसौरान्तसाधितत्वादधिशेषस्य तस्मात् सौरान्तर्वत्ति द्वितीयचान्द्रस्येदमधिकम् । यस्मादेकसौरमध्ये सम्पूर्णश्चान्द्र एको दिवसो द्वितीयधनशेषयुक्तोऽस्ति । सौरेभ्यो यदधिमाससाधनं' तच्चान्द्रीकरणार्थमेव क्रियते तच्चान्द्रा एव साध्या इति युक्तमुक्त साध्यजातित्वमिति । अधिमासशब्दो योगरूढुः पङ्कजशब्दवत्। सौरमाससंख्यातश्चान्द्रमाससंख्याधिक्यमधिमासशब्देनोच्यते । अवमशब्दो न्यूनत्ववाचक: । सावनदिनसंख्यायाश्चान्द्रदिवससंख्यातो न्यूनत्वमवमशब्देनोच्यते । तिथिसंख्यातः सावनसंख्याल्पत्वेन तिथिक्षया इत्युच्यन्ते ।

 दिनशब्द: सावने मुख्य इति सावनमधिमासाश्चान्द्राणां सावनीकरणार्थमवमानि साध्यन्ते । कस्मादधिकसंख्यायाः क्षयश्चान्द्रसंख्यातो दिनक्षयः । अस्मिन् सौरवर्षान्तर्गतचान्द्रमासेऽस्यां तिथावस्मिन् वासरे सूर्योदये कुत्र ग्रहा इति प्रश्ने


8, मूाधनमिति क पु० ।