पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/427

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८५
छेद्यकाधिकारः

 वा० वा०-अथ स्पष्टगतिवासनोच्यते। स्वकक्षागोलपरिधी ग्रहो भ्रमति भूगर्भ स्पष्टकक्षाकेन्द्रम्। भूगतेन कर्णाग्रे ग्रहो द्रष्टव्य: । भुजकोटिभ्यां कर्ण: सिध्यति । भुजकोट्यो जीवा रूपा एव भवन्तीति गोलकथनार्थं ज्योत्पत्तिकथनं प्रति- जानीते ।

 भुजकोटिकर्णानाह—इप्टेति । कोटिभुजोत्क्रमज्याज्ञानमाह-दोरिति । त्रिज्या- व्यासार्टेन वृत्तं कृत्वा चक्रकलाभिरड्क्यम् । वृत्ते पूर्वापररेखे कायें । येषां भुजभा- गानां' जीवाज्ञानं कर्तुमिष्टं ते भुजांशाः पूर्वापररेखावृत्तपरिधिसंपातादुभयत्र वृत्तपरिधौ गणयित्वा देयास्तत्र चिह्न कायें । तच्चिह्नयोर्यतिर्यक्सूत्र सा तेषां भुजभागानां सम्पूर्णजीवा भवति । तस्या अद्ध ज्याद्धचिहुमिति पूर्वापररेखातो जीवाग्रवृत्तपरिधि- सम्पातपर्यन्तमर्द्धज्या तेषामंशानामिति सर्वत्र वेद्यम् ।

अद्धज्याग्रे खेचरो मध्यसूत्रातिर्यक् संस्थो जायते येन तेन ।
अर्द्धज्याभिः कर्म सर्वं ग्रहाणामद्धज्यैव ज्याभिधानात्र वेद्याः२ ।

इति स्पष्टाधिकारे उक्तम् । इयं दोज्र्या भुजः । जीवाग्रवृत्तसम्पाताद्याम्योत्तर- रेखापर्यंन्तं योध्र्वाधररेखा सा कोटयंशानामद्धज्या कोटिः । वृतमध्याज्जीवाग्रवृत्त- परिधिसम्पातयर्यंन्तं तिर्यकू कर्ण: । पूर्वापररेखायां ज्याचापमध्ये ३बाणरूपा भुजो क्रमज्या । याम्योत्तररेखायां या बाणरूपा ज्या सा कोटद्युत्क्रमज्येति ।

 ज्याचापमध्य इति । त्रिभमौविंकाया इति ।

 पूर्वापरेखावृत्तसम्पाताद्याम्योत्तररेखावृत्तसम्पातपर्यंन्तं सूत्रवृत्तान्तर्गतचतुर- स्रभुजः पश्वचत्वारिंशदंशानां सम्पूर्णजीवा भवितुमहति द्विगुणभुजांशोपरि दीर्यमान- त्वात् । इयं पद्धचत्वारिंशदंशसम्पूर्णजीवा कर्ण: । अत्र त्रिज्यातुल्ये भुजकोटी दृश्येते । तत्कृत्योर्योगपदं कर्ण इति त्रिज्यावगों द्विगुणो जातः कर्णवर्गः ।

 अत्रा द्विगुणत्रिज्यावर्गमूलदलं कार्य तत्र त्रिभज्यावर्गाद्धमूलमेव गृहीतम् ।‘वर्गेण वर्गं गुणयेद् भजेच्चेति' द्वयोस्तुल्यत्वात् । वृत्तान्तः समचतुरस्रभु- जात्पश्चचत्वारिंशदंशजीवा ज्ञाता । वृत्तान्तः समषडस्रभुजस्त्रिज्यातुल्य एव भवति । द्विगुणखगुणांशोपरि दीयमानत्वादेकराशिसम्पूर्णजीवा तुल्योऽयमिति 'त्रिभज्यकाद्ध खगुणांशजीवेति'।

 एकराशिक्रमज्योत्क्रमज्ये देये भुजकोटिवदत्र यः कर्णः स पञ्चदशांशानां सम्पूर्णजीवा भवति द्विगुणतदंशोपरि दीयमानत्वात् । अत्र क्रमज्या भुज उत्क्रमज्या कोटिस्तदर्द्धांशकसम्पूर्णजीवा कर्णः ।

 अत उक्तं ‘क्रमोत्क्रमज्याकृतियोगमूलादिति' । अत्र दोज्यवर्गो नाम त्रिज्या- कोटिज्योर्वर्गान्तरं तद्योगान्तरघातसममिति कोटिज्या त्रिज्यान्तरेण भुजो क्रमज्या


१. भुजगानामिति खपु० ।

२. सि० शि० गणि० स्प० अ० श्लो० सं० २ ।

३. वाषभयो इ० खपु० ।