पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/442

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४००
सिद्धान्तशिरोमणौ गोलाध्याये

इदानी विक्षेपपातानाह —
  एवं क्रान्तिविमण्डलसंपाताः क्षेपपाताः स्युः ।
  चन्द्रादीनां व्यस्ताः क्षेपानयने तु ते योज्याः ।।२०।।
 मन्दस्फुटो द्राक्प्रतिमण्डले हि ग्रहो भ्रमत्यत्र च तस्य पातः ।
 पातेन युक्ताद्गणितागतेन मन्दस्फुटात् खेचरतः शरोऽस्मात् ।।२१।।
 पातेऽथवा शीघ्रफलं विलोमं कृत्वा स्फुटात् तेन युताच्छरोऽतः ।
 चन्द्रस्य कक्षावलये हि पातः स्फुटाद्विधोर्मध्ममपातयुक्तात् ॥२२॥

 वा० भा०- तथा क्रान्तिवृत्तविमण्डलयोः संपातः क्षेपपातः । तं ग्रहे प्रक्षिप्य क्षेपः साध्यः । एतदुक्तं भवति ॥ क्रान्तिपातः प्रसिद्धः । यथा तं ग्रहे प्रक्षिप्य क्रान्तिः सध्यते । रग्वं विक्षेपपातं ग्रहे प्रक्षिप्य क्षेपः साध्य इत्यर्थः । अथ विक्षेपपातो मन्दस्फुटे यत् प्रक्षिप्यते तत्कारणमाह । मन्दस्फुट इति । यतः शीघ्रप्रतिमण्डले मन्दस्फुटगत्या ग्रहो भ्रमति । तत्र च वृत्ते पातोऽतो गणितागतं पातं मन्दस्फुटे प्रक्षिप्य क्षेपः साध्यते । शेषं स्पष्टम् ।। २०-२२॥

 वा० वा०-एवं क्रान्तिपातस्वरूपमुक्त्वा शरपातस्वरूपं शरसाधनार्थ तत्संस्कारं च ग्रहेष्वाह--एवमिति । पतनं पातः पतनं नाम मिलनम् । तत्र नाडी मण्डलक्रान्तिमण्डलयोः किञ्चिदवयवसंयोगेऽपि संयुक्ताविति प्रतीतेः संयोगः सम्पातः क्रान्तिपात इत्युक्तम् । क्रान्तिमण्डलशरमण्डलयोः सम्पातः शरपात इत्युच्यते ।

 ननु स्पष्टखेटा क्रान्तिपातयुक्ताद्यथा क्रान्तिः साध्यते तथा शरपातयुक्ता त्स्पष्टखेटा कुतो न शरः साध्यत इत्यत्र प्रश्नस्योत्तरमाह-मन्दस्फुटो द्राक् प्रति मण्डले हीति । मन्दस्पष्टसाधितः शर: संवदतीति पातस्य शीघ्रप्रतिमण्डले भ्रमण युपगतम् ।। क्रमणं क्रान्तिः । कस्मात्क्रमणमिति नाडीमण्डलादिति नाडिकामण्ड लाक्तिर्यगात्रापम इत्यनेन प्रागभिहितम् । तिर्यगिति दक्षिणोत्तरभावेनेत्युक्तम् । तत्र क्रान्तिमण्डलावधिक्रमणं क्रान्तिर्मध्यमा चन्द्रादीनाम् ।

 क्रान्तिमण्डलाच्छरः क्षेपवृत्तावधि । नाडीमण्डलात् क्षेपवृत्तावधि चन्द्रादिग्र हनक्षत्राणां स्पष्टा क्रान्तिः ।। क्रान्तिपातस्थानस्थे स्पष्टग्रहे मध्यमक्रान्तेरभावः । शरपातस्थानस्थे मंन्दस्पष्टे शराभावः ।। क्रान्तिपाताङ्कादग्रतः पृष्ठतस्त्रिभेऽन्तरे परमा मध्यमा क्रान्तिश्चतुविशत्यंशमिता ॥ शरपाताङ्कादग्रतः पृष्ठतस्त्रिभेऽन्तरे शीघ्रकणेंन भक्तास्त्रिभज्या गुणाः पठितपरमशरभागाः यावन्तः सम्पद्यन्ते तावन्प रमः शरस्तत्रेति सुगमम् ।

 उच्चग्रहौ मेषादेरनुलोमं गच्छत इति ग्रहोच्चान्तरतः फलं साधितम् । एकदिग्गतयोर्गत्यन्तरतुल्यमेव तयोरन्तरमिति प्रसिद्धेः । मेषादे राश्याद्यनुलोम गत्या ज्ञातग्रहस्य राश्यादिप्रतिलोमगत्या ज्ञातपातस्यान्तरं पातग्रहयोगेनैव सिध्यति । यथा नन्दकाननात् पश्चिमदिशि योजनाष्ट्रकान्तरे प्रयागे स्थितस्य