पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/444

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०२
सिद्धान्तशिरोमणौ गोलाध्याये

क्रान्तिः स्पष्टादेव साध्यते प्रत्यक्षदृष्ट किमनुपपन्न नामेति सर्व शोभनम् । मन्दस्पध्ये
द्राक् प्रतिमण्डले भ्रमति तत्रैव तस्य पातो लक्षितः । यन्त्रवेधविधिना या शरानुपलब्धि
स्तया शराभावो गृह्यते । शराभावे त्ववश्यं गणितागतपातचिह ग्रहण भाव्यम् ।
मेषादेगणितागतं भाद्य पातं विलोमं दत्वा चिह्न कार्यम्। तच्चिह्न षड्भान्तरितचिह्न
वा मेषादेर्भादिकग्रहोऽनुलोमगत्याऽवश्यं भवत्येव । तत्र यदा भौमादीनां शराभावो
दृष्टस्तदा मन्दस्पष्ट एव पातचिह्म दृष्ट इति शीघ्रप्रतिमण्डलभ्रमणमाक्षिपतीति मन्द-
स्फुटो द्रागिति सम्यगुक्तम् ।
 यस्माद् गणितागतपातो मन्दस्पष्ट योज्य इति सिद्धमतो विलोमशीघ्रफलसं
स्कृतपातयुतस्पष्टाच्छरसाधनं फलाविशेषाद्युत्तमित्याह-पातेऽथवेति । केवलयोज्ययोजकयो
गेऽभीष्टीनयुक्तयोज्ययोजकयोर्वा योगे फलाविशेषाच्छीघ्रफलतुल्यमत्रेष्ट कल्पितम्।
त्रिज्यातुल्यया सपातमन्दस्पष्टदोज्र्यया शीघ्रकणेंन भक्तास्त्रिभज्या गुणा ग्रहपरक्षेपभागा
लभ्यन्ते तदेष्टया किमिति शरसाधनं कृतम् ।
 यद्वा सपातमन्दस्पष्ट्दोज्य पठितशरगुणा त्रिज्याभक्ता शीघ्रप्रतिमण्डल
स्थग्रहशरः स्यात्तस्य कक्षावृत्तीयकरणार्थ कर्णानुपातः कृतः ॥
 भौमादिपाता मन्दस्पष्टस्थानीयत्वेन शीघ्रप्रतिमण्डलस्था जाताश्चन्द्रपातस्य
कुत्रावस्थानं चन्द्रस्य शीघ्रप्रतिमण्डलाभावादित्यत आह-चन्द्रस्य कक्षावलये हि पात
इति । मन्दस्पष्टस्यैव चन्द्रस्य सर्वदा स्पष्टत्वेन ‘स्फुटाद्विधोर्मध्यमपातयुक्तादित्युक्तम्' ।
कथं चन्द्रस्य मध्यमपात एव कक्षामण्डलस्थो जातो नान्येषामिति नाशङ्कनीयं यतो
विचित्रा फलवासनात्रेति निरूपितत्वात् ॥ २०-२२ ।।
 इदानीं ज्ञशुक्रयोविशेषमाह-
ये चात्र पातभगणाः पठिता ज्ञभृग्वोस्ते शीघ्रकेन्द्रभगणैरधिका यतः स्युः ।
स्वल्पाः सुखार्थमुदिताश्चलकेन्द्रयुक्तौ पातौ तयोः पठितचक्रभवौ विधेयौ ॥२३॥
 चलाद्विशोध्यः किल केन्द्रसिद्धयै केन्द्रे सपाते द्युचरस्तु योज्यः ।
 अतश्चलात् पातयुताज्ज्ञभृग्वोः सुधीभिराद्यैः शरसिद्धिरुक्ता ॥२४॥
 स्फुटोनशीघ्रोच्चयुतौ स्फुटौ तयोः पातौ भगोले स्फुट एव पातः ।
 वा० भा०-- ननु। ज्ञशुक्रयो: शीघ्रोच्चपातयुति केन्द्र कृत्वा यो विक्षेप आनीत: स
शीघ्रोच्चस्थान एव भवितुमर्हति । न ग्रहस्थाने ॥ यतो ग्रहोऽन्यत्र वर्तते । अत इदमनुपपन्नमिव
प्रतिभाति। तथा च ब्रह्मसिद्धान्तभाष्ये । ज्ञशुक्रयोः शीघ्रोच्चस्थाने यावान् विक्षेपस्तावानेव
यत्र तत्रस्थस्यापि ग्रहस्य भवति । अत्रोपलब्धिरेव वासना नान्यत् कारणं वक्तुं शक्यत इति
चतुर्वेदेनाप्यनध्यवसायोऽत्र कृतः ॥ सत्यम् । अत्रोच्यते । येऽत्र ज्ञशुक्रयोः पातभगणाः. पठितास्ते
शीघ्रकेन्द्रभगणैर्युताः सन्तस्तद्भगणा भवन्ति । तथा च माधवीये सिद्धान्तचूडामणौ पठिताः ।
अतोऽल्पभगणाभवः पातः स्वशीघ्रकेन्द्रेण युतः कार्यः । शीघ्रोच्चाद्ग्रहे शोधिते शीघ्रकेन्द्रम् ।