पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/447

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०५
त्रिप्रश्नवासनां

यष्टयां दृढ़ बद्ध्वा यष्टयग्रयो: प्रोते नलिकाद्वये निबद्धौ खगोलदृग्गोली कृत्वा भगोलभ्रमण
दर्शयेत्। २९-३१ ॥
 इति श्रीभास्कराचार्यविरचिते गोलवासनाभाष्ये मिताक्षरे गोलबन्धा
  धिकारः समासः । अत्र ग्रन्थसंख्या १८० ॥
वा० वा०--ईप्सितक्रान्तितुल्येऽन्तरे सर्वतो नाडिकाख्यादित्यादि। २७-३१ ।
 श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद्बुधाद्
 भट्टाचार्यसुताद्दिवाकर इति ख्याताञ्जनि प्राप्तवान् ।
 यः कृष्णस्तनयेन तस्य रचिते सद्वासनावात्तिके
 सत्सिद्धान्तशिरोमणेरयमगाद्गोलस्य बन्धः स्फुटः ॥

अथ त्रिप्रश्नवासना
 तत्रादौ चरस्थानमाह-

 उन्मण्डलक्ष्मावलयान्तराले द्युरात्रवृत्ते चरखण्डकालः ।
 तज्ज्यात्र कुज्या चरशिञ्जिनी स्याद्व्यासार्धवृत्ते परिणामिता सा ॥१॥
 वा० भा०--क्षितिजोन्मण्डलयोर्मध्येऽहोरात्रवृत्ते यावान् काल: स चरखण्डकालः ।
तत्रोन्मण्डलादुभयतश्वरतुल्ये चिह कृत्वा तयोर्निबद्धसूत्रस्यार्ध कुज्या । सैव त्रिज्यावृत्तपरिणता
सती चरज्या स्यादिति त्रिप्रश्ने व्याख्यातम्। १ ।।
 वा० वा०-अथ त्रिप्रश्नाध्यायवासना ।
 तत्र कुज्याचरज्या स्थानमाह-उन्मण्डलक्ष्मावलयान्तराल इति ॥ १ ॥
 इदानी लङ्कास्वदेशाकोदययोन्तरं चरकालमाह
 निरक्षदेशे क्षितिजाख्यवृत्तमुन्मण्डलं तज्जगुरन्यदेशे।
 स्वे स्वे कुजेऽर्कस्य समुद्रमोऽस्माचरार्धमकोंदययोस्तु मध्ये ॥२॥
 वा० भा०-स्पष्टार्थम् । २ ।।
 इदानी चरफलस्य धनर्णवासनामाह——
 अादौ स्वदेशेऽथ निरक्षदेशे सूर्योदयो ह्यस्तमयोऽन्यथातः ।
 ऋणं ग्रहेऽस्मादुदये स्वमस्ते फलं चरोत्थं रविसौम्यगोले ॥३॥
 याम्ये विलोमं खलु यत्र यस्मादुन्मण्डलं स्वक्षितिजादधस्तात् ।
 नाडयाह्नयादुतरयाम्यभागो गोलस्य ताबुतरयाम्यगोली ।।४।।
 वा० भा०--सुगम पूर्व व्याख्यातं च । ३ ।।
 वा० वा०-ग्रहे चरसंस्कारयुतिमाह-निरक्षदेश इति । आदाविति ।
 अस्मार्क रेखाकॉदयास्तकालिका ग्रहा। अपेक्षिता इति चरसंस्कार: क्रियते ।
 महदहः किमहो रजनी तनुरित्यस्योत्तरमाह-नाडयाह्वयादिति ॥ २-४।।