यत्र देशे लम्बांशाश्चतुविशतिभागेभ्योऽल्पास्तत्रैवार्कस्य लम्बाधिका क्रान्ति-
रुत्पद्यते । याट्टशे राश्याद्यवयवे स्थितार्कस्य लम्बाधिका क्रान्तिर्यावत् पर्यन्तमुत्पद्यते
तादृश राश्याद्यवयवस्थितार्कस्तावत्पर्यन्तं दृश्यत इति तावद्दिनमित्युक्तम् । तदहोरात्र
वृत्तस्य क्षितिजोपरि स्थितत्वात् ।
मेरौ तु नाडिकामण्डलं क्षितिजं तत्रोत्तरा क्रान्तिः सर्वापि लम्बाधिकेति
सौम्यगोलस्थेऽर्के षण्मासपर्यन्तं दिनं भवतीत्याह ततश्च मेराविति--भवति किं
द्युनिशं द्युनिवासिनामिति प्रश्नस्योत्तरं दत्तम् ॥ ५६-७ ।।
इदानी मेरुसंस्थानमाह--
{gap}}विषुवद्वृत्तं द्युसदां क्षितिजत्वमितं तथा च दैत्यानाम् ।
उत्तरयाम्यौ क्रमशो मूधोंध्र्वगतौ ध्रुवौ यतस्तेषाम् ॥ ८ ॥
उत्तरगोले क्षितिजादूध्र्वे परितो भ्रमन्तमादित्यम्।
सव्यं त्रिदशाः सततं पश्यन्त्यसुरा असव्यगं याम्ये ।। ९ ।।
वा० भा०-स्पष्टार्थम् । ८-९ ॥
वा० वा०-मेरुस्थानां वडवानलस्थानां नाडीमण्डल कथ क्षितिजमिति प्रति
पादयति विषुवद्वृत्तमिति ।
उन्मण्डलस्थध्रुवस्तेषां मस्तके भवतीति वदता उन्मण्डल तेषां सममण्डल
मित्युक्त भवति । तत्र नाडीमण्डलस्य क्षितिजत्वे कि चित्रम् ।
देवदैत्यानां सव्यापसव्यकरणं च संभवतीत्याह - उत्तरगोल इति ॥ ८ ९ ॥
इदानीं दिनरात्रिस्वरूपे पितृदिनं चाह--
'दिनं दिनेशस्य यतोऽत्र दर्शने तमी तमोहन्तुरदर्शने सति ।
कुष्ठगानां युनिशं यथा नृणां तथा पितृणां शशिपृष्ठवासिनाम्॥१०॥
वा० वा०-दिनरात्रिलक्षणमाह-दिनमिति। अत्राचार्यलक्ष्यतावच्छेदक
भूपृष्ठनिष्ठमनुष्यदिनत्वं कृतं पितृब्रह्मदिनसाधारणं न कृतम् । अन्यथा कुपृष्ठगाना
मित्युतराद्ध व्यर्थ स्यात् मध्यमाधिकारवात्तिके लक्षणद्वयातिव्याप्त्यव्यासिविचारो
ब्रह्मदिनवशेन कृतः स कृत्वा चिन्तान्यायपरः । चन्द्रपृष्ठवासिनामप्यहोरात्रव्यवस्था
स्तीति दृष्टान्तेनाह-कुपृष्ठगानामिति ॥ १० ।।
१. अत्र श्रीपति:-
सकृदुद्गतो दिनकरः सुरासुरैरपि वत्सरार्धमवलोक्यते स्फुटम् ।
पितृभिश्व मासदलमिन्दुगोलगैद्युदल महोतलगतैध मानवैः ।।
सि० शे० १५ अ० ५८ श्लो० ।।