भार्धान्तरत्वान्न विधोरधःस्थं तस्मान्निशीथः खलु पौर्णमास्याम् ।
कृष्णे रविः पक्षदलेऽभ्युदेति शुक्लेऽस्तमेत्यर्थत एव सिद्धम् ॥१४॥
वा० भा०-स्पष्टम् ॥ १३-१४ ॥
वा० वा०-पितृषु कि शशिमासमितमिति प्रश्नस्योत्तरमाह-विधूध्र्वभाग
इति । भाद्धन्तरत्वादिति । सर्वं ब्रह्माण्डं करतलकलितामलकवत्पश्यतो ब्रह्मणः
कल्पपर्यन्तं दिनं संभवति सूर्यस्य तावत्कालपर्यन्तं स्थितत्वात् ॥ १३ · १४ ।।
अथ ब्रह्मदिनोपपत्तिमाह—
यदतिदूरगतो द्रुहिणः क्षितेः सततमाप्रलयं रविमीक्षते' ।
भवति तावदयं शयितश्च तद्युगसहस्रयुगं द्युनिशं विधेः ॥१५॥
वा० भा०-दूरस्थितत्वादाप्रलयं रवि पश्यति । दिनान्ते रव्यादीनुपसंहृत्य शेत
इत्यर्थः ॥ १५ ॥
वा० वा०-युगसहस्रमितमिति प्रश्नस्य 'यदतिदूरगत' इत्यनेनोत्तरं
दत्तम् ॥ १५ ॥
इदानीमुदयवासनामाह -
यो हि प्रदेशोऽपममण्डलस्य तिर्यक्स्थतो यात्युदयं तथास्तम् ।
सोऽल्पेन कालेन य ऊर्ध्वसंस्थोऽनल्पेन सोऽस्मादुदया न तुल्याः ॥१६॥
य उद्गमे याम्यनता मृगाद्याः स्वस्वापमेनापि निरक्षदेशे ।
याम्याक्षतस्तेऽतिनतत्वमाप्ता उद्यन्ति कालेन ततोऽल्पकेन ॥१७॥
केशवाकः---
अथाप्यसौ केवलवासनायां नायाति सिद्धं तदपि प्रियं नः ।
अवासन कि न सुरद्युरात्रमकायनाभ्यां भवतैव भेजे।
सिद्धान्तपक्षस्तु परं दिनार्धान्निशा निशाधात् परतो दिनश्रीः ।
एवं पुरागै गणिते च साम्यमकायनाभ्यां सदसत्फलेषु।
कर्क गतेऽर्क हि सुरापराहुः फलं पुना रात्रिवादाहुरस्य ।
नक्र गते चापररात्रमेषामेतत्परं वासरवत् स्मरन्ति ।
अतश्च कश्चिद्दशमीष्वपि प्राक्कापालिको वेधविधिः किलोत्तः ।
मासोऽय एवं नियमव्रतादौ पित्र्ये निशार्धे सति पौर्णमास्याम् ।
१. अत्र श्रीचन्द्रदेवः--
तिथ्युद्धृता भानुगतिः कलाद्यमासं फलं तेन युता जिनांशाः ।
तांश्चाक्षभागानू प्रविकल्प्य साध्या ह्यक्षश्रुतिः सा रविभिविंयुक्ता ॥
अर्केर्हता भूदलयोजनघ्नी स्यादुच्छुितिस्तन्मितयोजनैश्व ।
भूपृष्ठतस्तुङ्गगतो विधिश्चेन्मित्रं सदैवाप्रलयं स पश्येत् ॥