देशे यस्य राशेः स्वचरार्धसमाः स राशिस्तत्र देशे सदा दृश्य इत्यत्र का युक्तिः ॥ अन्यथा दृश्यादृश्यं सर्वं युक्तिशून्यमुक्तम् ॥ यद्येवं तहि यत्र षट्षष्टिः ६६ पलांशास्तत्र सर्वेषां स्वचरोदयसाम्यं स्यात्। युगपत् सर्वेषां सदा दृश्यत्व मेरावपि न घटते किंत्वन्यत्रातस्तदसत्। ३१ ।
वा० वा०-लल्लेन यत्सदोदितराशिलक्षण कृतं तदनूद्य दूषयतिराशेरिति ॥ ३१ ।।
इदानीमन्यद्दूषणमाह--
षट्षष्टिः सदला लवाः पलभवा यस्मिन् न तस्मिन् धनु |
वा० भा०-अत्र त्र्यंशयुङ्नवरसा इत्यादिभिर्भवितव्यम् ॥ ६९ ।। २१ ॥ ७८ । १५ । एषां स्थान एते ६६ ॥ ७ ॥ त्रिभिस्त्रिभिरंशैरूना केन हेतुना लल्लेन निजे गोले पठिताः । हे तद्गोलज्ञ तत् प्रोच्यताम् ॥
[ तथा नहि तेषां राशीनां निरक्षोदयसमानि स्वचरखण्डानि। तत्र चरार्धान्यपि नागच्छन्ति । चरञ्ज्यायास्त्रिज्यातोऽधिकत्वात् ॥ अतः पूर्वश्लोकेऽतिदुष्टत्वमित्यर्थः ।। * ।।॥ ३२ ।।
वा० भा०--तदुक्तमन्यदपि दूषयति-षट्षष्टिरिति ॥ ३२ ।। |
वा० भा०-चक्रयन्त्रेण ग्रहवेधवद्भुवं विध्येत्। तत्र यन्त्रनेम्यां य उन्नतांशास्तेऽक्षांशाः । ये नतास्ते लम्बांशाः । अथवा विषुवद्दिनार्धे येऽर्कस्य नतोन्नतांशास्तेऽक्षलम्बांशा इति युक्तियुक्तम् ।। ३३ ॥
इदानी शङ्क्वानयनवासना संक्षिप्तामाह--
उन्नतं द्युनिशमण्डले कुजात् सावनंदयुतिविधौ हि तज्ज्यका। |
१. अत्र लल्ल:-
पञ्चभिरधिका ससति रंशा यस्मिन् पलस्य विषये स्युः । तत्र न वृश्चिककामुकमकरघटा दृश्यतां यान्ति । शि० धी ५ गो० मध्य० २● श्लो० ॥ २. अत्र बापूदेवः-तथा नहीतिप्रभृतीत्यर्थ इत्यन्तं केनचिद्गोलानभिज्ञेन प्रक्षिसमिति प्रतिभाति ॥