इदानी क्रान्तिक्षेत्राण्याह--
क्षेत्राणि वच्येऽपमसंभवानि संक्षेपतोऽक्षप्रभवाणि चातः ।। ४२ ।।
भुजोऽपमः कोटिगुणो द्युजीवा' कर्णस्त्रिभज्या त्रिभुजेऽपमोत्थे ।
मेषादिजीवाः श्रुतयोऽपवृत्ते तद्भूमिजे क्रान्तिगुणा भुजाः स्युः ।। ४३ ।।
तत्कोट्यः स्वद्युनिशाख्यवृत्ते व्यासार्धवृत्ते परिणामितानाम् ।
चापेषु तासामसवस्ततो ये तेऽधो विशुद्धा उदया निरक्षे ॥ ४४ ।।
वा० भा०-स्पष्टम्। एषां क्षेत्राणामुपपति: स्पष्टाधिकारे दशिर्तव ॥ ४१३-४४ ।
अथाक्षक्षत्राण्याह--
भुजोऽक्षभा कोटिरिनाङ्गुलो ना कर्णोऽक्षकर्णस्त्रिभुजं यथेदम् ।
तथाक्षलम्बौ भुजकोटिरूपौ त्रिज्या श्रुतिर्दक्षिणसौम्यवृत्ते ।। ४५ ।।
उन्मण्डले प्रागपरोत्थसत्रात् क्रान्तिज्यका कोटिरथ द्युरात्र ।
कुज्या भुजोऽग्रा क्षितिजे च कर्णः क्षेत्र' तथेदं त्रिभुजं प्रसिद्धम् ॥४६॥
अग्रा भुजः स्वे समना च । कोटिद्युरात्रके तद्धृतिरत्र कर्णः ।
भुजोऽपमज्या समना च कर्णः कुज्योनिता तद्धृतिरेव कोटिः ॥४७॥
उद्वृत्तना दोरपमः श्रुतिः स्यादग्रादिखण्डं खलु तत्र कोटिः ।
उद्वृत्तन्ा कोटिरथाग्रकाग्रखण्डं भुजस्तच्छ्रवणः क्षितिज्या ॥ ४८ ।।
कोटिर्नरः शङ्कुतलं च बाहुश्छेदः श्रुतिस्त्र्यस्रसहस्रमेवम् ।
उत्पाद्य सद्यः स्फुटगोलवियैश्छात्राय शास्त्र प्रतिपादनीयम् ॥ ४९ ।
वा० भा०--अक्षक्षेत्राणां साधनानामप्युपपत्तिस्त्रिप्रश्ने दर्शिता । ४५-४९ ।
इति श्रीभास्करीये गोलभाष्ये मिताक्षरे त्रिप्रश्नवासना । अत्र ग्रन्थसंख्या १९० ॥
वा० भा०-द्युज्याकुज्यापमसमनराग्राक्षलम्बादिकानां
विद्वन् गोले वियति हि यथा दर्शय क्षेत्रसंस्थाम्'
इति प्रश्नस्योत्तरमाह-सप्तदशभि: कुपृष्ठगानामित्यत्र गोले यद्बद्ध क्षितिजं तद्भूपृष्ठक्षितिजं भवति । द्रष्टा भूपृष्ठगस्तेन भूगर्भक्षितिजाद्भूपृष्ठक्षितिजं भूव्यासार्द्धयोजनैरेवोच्छ्रितमिति स्वभुक्तितिथ्यंशमिताः कलाः शङ्कोः शोध्या इत्युक्तम् । गतियोजनानां तिथ्यंशतुल्यान्येव भूव्यासार्द्धयोजनानीति स्पष्टम् ।
चन्द्रप्रभार्थमित्यत्र हृतेरुन्नतं द्युनिशमण्डले कुजात्सावनं द्युतिविधौ हि
तज्ज्यकेत्यनेन सावनघटीजन्यत्वात् सकृदेव कालसाधनमुचितम् । असकृत्करणे नाक्षत्रत्वं भवति। नहि नाक्षत्र क्षेत्रोपयोगीति स्पष्टम्। यैरसकृत्साधितं तेषां स्पष्टमेव
१. भुजोऽपमज्या द्युगुणस्तु कोटिरिति वा पाठ; ।