कृत्वाकेन्द् समुत्पत्तिं लम्बनस्य प्रदर्शयेत् । |
वा० भा०-स्पष्टार्थमपि स्वरूपमात्र व्याख्यायते । कुदलेनोच्छूितो द्रष्टा दृङ्मण्डले स्वस्थानान्नतं ग्रहं पश्यति । अतस्तज्ज्ञानार्थं पृथिवीव्यासार्धस्य यजनानि कक्षाव्यासार्धस्य च योजनान्येकेन केनचिद्धरेण छित्त्वा तेन प्रमाणेन भित्तौ विलिखेत्। एतदुक्त भवति। भूव्यासः कुभुजङ्गसायकभू १५८१ मितानि योजनानि । एतानि केनचिन्महता हरेण छिन्नानि । तद्दलं भूव्यासार्धम् । तेनैव छेदेन चन्द्रार्ककक्षाव्यासार्धे छिन्ने । ते तद्वयासार्धे भवतः । एवं कृत्वा भित्ताबुतरपाश्वें बिन्दु कृत्वा तस्माद्बन्दोभव्यासार्धन भूवृत कृत्वा कक्षाव्यासार्धाभ्यां कक्षावृत्ते च कायें । तस्माद्बिन्दोरूध्वरेखा तिर्यग्रेखा च कार्या । तिर्यग्रेखा यत्र कक्षायाँ लग्ना तत्र क्षितिजं कल्प्यम् । ऊध्वंरेखा यत्र लग्ना तत्र खमध्यं कल्प्यम् । एवं चन्द्रकक्षायां रविकक्षायां च । ते च कक्षे भगणांशै। ३६० रडूनीये । ते चन्द्रार्कयोर्दूङ्मण्डले । अथ दशान्तेिऽर्कस्य या दृग्ज्या तच्चापांशैः खमध्यान्नतो बिन्दु कार्यः । एवं चन्द्राक्क्षायामपि तावद्भिरेव नतांशैः । तौ बिन्दू रविचन्द्रौ कल्प्यौ । अथ भूमध्याद्रविबिन्दुगामिनि रेखा कार्या सा रेखा चन्द्र भित्वा रवि याति । अथ भूपृष्ठगाद्द्रष्टुरन्या रेखा रविबिन्दु नेया सा रेखा चन्द्र न लगति । तयो: सूत्रयोरन्तरे चन्द्रकक्षायाँ याः कला दृश्यन्ते ता लम्बनलिप्ताः । अथबा द्रष्टुश्चन्द्रबिन्दूपरिगत रेखा रविकक्षायां नेया तत्र सूत्रयोरन्तरे याः कला दृश्यन्ते ता वा लम्बनलिसास्तुल्या एव भवन्ति। भूगर्भाद्या नीता रेखा तद्भगर्भसूत्रम्। समकली चन्द्राकों तत्र सदव भवतः । अथ या रेखा द्रष्टू रविबिन्दु नीता तत्दूक्सूत्रमुच्यते । दूक्सूत्राच्चन्द्रो लम्बितो भवति। अतस्तल्लम्बनम्। अथ यदा चन्द्राकीं खमध्ये भवतस्तदा गर्भदृष्टिसूत्रयोरैक्यमतस्तत्र लम्बनाभावः । इयं दृङ्मण्डले लम्बनस्योपपत्तिदंशिता ॥ १२-१६ ।।
वा० वा०-लम्बनोपपत्त्यर्थ छेद्यकमाह-इष्टापर्वात्ततामिति । तिर्यग्रेखायुताविति । कृत्वेति - भूवृत्तं चन्द्रार्ककक्षावृत्ते च कृत्वा भूगर्भाच्चन्द्रार्ककक्षावृत्तपरिधिपर्यन्तं तिर्यग्रवृद्ध रेखे च विधेये। कक्षायां तिर्यग्रेखायुतौ क्षितिजमूध्वरेखायुतौ खार्द्ध च विधेयम् । तत्र पञ्चसहस्रयोजनपरिमिता भूमिर्लम्बनोपपत्त्यर्थं लिखितुमशक्येति केनचिन्महतेटेनापवतिता लेखनीयेति सम्यगुप्तम्।