शीघेऽग्रगे युतिर्याता गम्या पृष्ट्रगते यतः । |
वा० भा० - स्पष्टार्थमिद ग्रहणवासनायां व्याख्यातं च । २१-२९ ॥
वा० वा० - अर्कात् कुत्र चन्द्रावलम्बनमित्याह- यत्र तत्रेति । पूर्वापरञ्चेति। यदिति । स्पष्टम् ।
रविट्टङ्मण्डले रविट्टग्ज्याकर्णस्त्रिभोनलग्नट्टग्ज्या दृक्क्षेपवृत्ते भुजो दृङ्नतिः कोटिरिति क्षेत्रमस्ति । तत्र त्रिभोनलग्नट्टग्ज्योत्पन्नं यल्लम्बनं सा नतिर्भुजः रविदृग्ज्योत्पन्नं दृग्लम्बनं कर्णः । दृङ्नतिजनितं स्पष्टलम्बनं कोटिः।
दृक्लम्बननत्योरानयनमाह-'परलम्बनलिप्ताघ्नी त्रिज्याप्ता रविट्टग्ज्यकेति । परमलम्बनानयनमाह—गत्यन्तरस्येति । कुतो गत्यन्तरतिथ्यंशः परलम्बनमित्यत्र कारणमाह--गतियोजनतिथ्यंश इति । गत्यन्तरकलाभिः षष्टिघटिकास्तदा। लम्बनकलाभिः का इत्यनुपातेन लम्बनकलाना घटीकरणमाह–स्युरिति । अधश्चन्द्रावलम्बनमिति प्रागग्रतो रवेश्चन्द्रः पश्चात् पृष्ठेऽविलम्बित ‘इत्युक्तम्' ।
पूर्वाह्णापराह्णयोः कथमृणं धनं तिथौ लंबनं क्रियत इत्यत्राह- शीघ्रेऽग्रगे युतिरिति । शराभावेऽपि खस्वस्तिकादन्यत्रस्थे त्रिभोनलग्ने रविग्रहणसमये यद्याम्योत्तरमन्तरं ग्राह्यग्राहकयोरुपलभ्यते सा शुद्धा नतिः । शरसद्भावे शरसंस्कृता नतिः । यत्र षट्षष्टिभागा पलांशास्तत्र यथावस्थितं गोले बद्धं क्रान्तिवृत्तमेव भूगर्भक्षितिजम् । तत् क्षितिजयाम्योत्तरवृत्तसम्पाते यदा त्रिभोनलग्नं तदा परमा नतिः । चन्द्राकाँ दशन्तिकालिकौ षट्षष्टिभागपलांशविषये यदा याम्योदक्क्षतिजस्थौ भवतस्तदा। भूपृष्ठनरक्षितिजाद्भूगर्भक्षितिजस्य भूव्यासार्द्धयोजनैरन्तरितत्वाद्भूपृष्ठक्षितिजादधो रविचन्द्रकक्षामण्डले भूव्यासार्द्धयोजनैर्लम्बिते भवतः । कक्षयोरन्तरं याम्योत्तरं नतिरियं परमा । अक्षोदङ्मध्यमक्रान्तिसाम्येनावनतेरभावः । तस्मान्नत्या संस्कृतः शरः स्पष्टः स्याद् ग्राह्यग्राहककक्षाभेदादित्याह- - याम्योत्तरमिति ॥ २१-२९ ।
अथ वलनवासनामाह—
तुलाजाद्योर्हि संपाते विषुवत्क्रान्तिवृत्तयोः । |