४२६
सिद्धान्तशिरोमणौ गोलाध्याये
सूत्रानन् वृत्तरूपाणि वलनानि तदन्तरे ।
वलनं मध्ये स्यात् समधुवस्त्रयोः ॥ ४६ ।
कदम्बधुवसूत्रान्तरायनं च त्रिभे ग्रहात्।
कदम्बसमसूत्रान्तः स्फुटं सर्वदिशां च तत् ॥ ४७ ।
अथवा परितः खेटात् खाङ्कभागान्तरे न्यसेत् ।
त्रिज्यावृत्तं ततस्तत्र विषुवत्समवृत्तयोः ॥ ४८ ।
मध्येऽक्षवलनं विद्याद्विषुवत्क्रान्तिवृत्तयोः ।
अन्तरं चायनं क्रान्तिसमवृत्तान्तरे स्फुटम् ॥ ४९।
प्राची तस्या याम्योत्तरः शरः ।
वलनानयने क्षेपः क्षिप्तो यैस्ते कुबुद्धयः ॥ ५० ।
नक्रादिश्व कदम्बश्व स्यातां याम्योत्तरे समम् ।
अायनं वलनं तस्मान्नायनादौ प्रजायते ॥ ५१ ।।
ततो भ्रमति गोले स मकरादियथा यथा।
तथा तथा भ्रमत्येष कदम्बी निजमण्डले ॥ ५२
कुम्भादावथ मीनादी याम्योदग्वलयस्थिते ।
जायते वलनं तद्यत् सौम्यसूत्रकदम्बयोः ॥ ५३ ।
अन्तरं शिजिनीरूपं कदम्बभ्रममण्डले ।
अयनाद्तकालांशष्क्रमक्रान्तिज्यका हि सा ॥ ५४ ॥
उत्क्रमज्या यतो बाणः शिञ्जिनी तु क्रमज्यका ।
त्रिभाकात् क्रमक्रान्तिज्यातो वलनमायनम् ॥ ५५ ।
यैरुक्तमुत्क्रमक्रान्त्या भ्रान्त्या तैर्नाशितं हि तत् ।
युक्तयानयैव विक्षेपमक्षजं च क्रमज्यया ॥ ९६ ।
परोक्तेरन्यथा ब्रूयाद्यः परान् न प्रदूषयेत् ।
तस्यैव दूषणं तद्धि न दोषोऽतोऽन्यदूषणे ॥ ५७ ।
उत्क्रमज्यानिरासोऽयमन्यथा वाथ कथ्यते ।
जिनांशैर्जिनवृत्ताख्यं कदम्बात् परितो न्यसेत् ॥ ९८ ।।
|