पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/472

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३०
सिद्धान्तशिरोमणौ गोलाध्याये

वृत्तव्यासार्घ एतावती तदाक्षज्याव्यासार्धे किंयतीति । ततो द्य ज्याग्र एतावती वलनज्या तदा त्रिज्याग्रे कियतीति । अत्र प्रथमेऽनुपाते त्रिज्या हरो द्य ज्या गुणः । तृतीयेऽनुपाते त्रिज्या गुणो द्यज्या हरोऽतस्तुल्यत्वात् तयोर्नाशे कृते नतासूनां भुजज्याक्षजीवया गुणितोपवृत्तव्यासार्धेन भक्ता सा सूक्ष्मा वलनज्या स्यात् ।अतः उकमग्रानूतलयोयोंग इत्यादि ।

 अथ दृष्टान्तः । यत्र किल वृषभान्तक्रान्तितुल्योऽक्षः २०।। ३८ । । तत्र वृषभान्तस्थोऽकों दिनार्धे खस्वस्तिके भवति । तदा क्रान्तिवृत्तं दृङ्मण्डलाकारं स्यात् । सत्रिगृहोऽकों राशिपञ्चकं सिहान्तः । स च सदा क्षितिजे वर्तते । तत् प्राच्यपरयोरन्तरं क्षितिजे प्रत्यक्षं वलनं दृश्यते । सा च सिहान्तस्याग्रा । तत् कथं सत्रिगृहाकॉत्क्रमक्रान्तिर्वलनम् । अतोऽसत् । अस्मदानयनं विना नेदमग्रारूपं वलनमुत्पद्यत इत्यर्थः ॥

 अथान्यो महान् दृष्टान्तः । यत्र देशे षट्षष्टिभागा ६६ अक्षः ॥ तत्र मेषादौ क्षितिजस्ये सर्वेऽपि राशयः समकालमेव क्षितिजेथा भवन्ति । तदा क्रान्तिवृत्तमेव क्षितिजं भवतीत्यर्थः । तत्र मेषादौ वृषभादौ मिथुनादौ वा स्थिते रवौ परमं त्रिज्यातुल्यमेव स्फुटं वलनं स्यात् । यतः क्रान्तिवृत्तप्राच्युतरा जाता । तथा विक्षेपाभावे सति तदा रवेदक्षिणस्यां दिशि स्पर्श: । चन्द्रस्योत्तरस्यामित्यर्थः । एतदुक्तं भवति । तत्र देशे तस्मिन् काले तस्य त्रिज्यातुल्यस्य वलनस्यान्यथानुपपत्यास्मदीयमेव वलनानयनं समीचीनम् । तत्र देशेऽक्षज्या ३१४० । मेषादिगे रवी ज्या ३४३८ । चरज्यासवः ० ॥ क्षितिजस्थेऽर्के नतघटिकाः १५ । अायनवलनचापांशाः २४ ।। आक्षवलनचापांशा: ६६ । स्फुटवलनस्य चापशाः ९० । वृषादिगे रवौ द्या ज्या ३३६६ । चरज्यासवः १६७० । नतघटिकाः १९ ॥ ३८ ॥ अायनवलनचापांशाः २१॥४॥ अक्षजस्य ६८॥५६॥ स्फुटवलनस्य चापांशाः ९० । मिथुनादिगे द्या.ज्या ३२१८ । चरासव: ३४६५ । नतघटिका: २४ ॥ ३७ । अायनवलनांशाः १२ ॥ ३२ ॥ अक्षजस्य ७७ ॥ २८ । रफुटस्य ९० । एवं सर्वत्र ।

 अत एव प्रतिवादिनं प्रत्याह-

यत् खस्वस्तिकगे रवौ भवलये दृग्वृतवत् संस्थिते
प्रत्यक्ष वलन कुजे त्रिभयुताकांग्रासम दृश्यते ।
त्वं चेदुत्क्रमजीवयानयसि तत् तादृक् सखे गोलविन्म
न्ये तर्हामलं तदेव वलनं धीवृद्धिदाद्योदितम् ।
यत्राक्षोऽङ्गरसा लवा दिनमणेस्तत्रोदयं गच्छतो-
मेषे वा वृषभेऽपि वाप्यनिमिषे कुम्भे स्थितस्यापि वा ।
दक्षिणतस्तदा क्षितिजवत् स्यात् क्रान्तिवृत्तं यत
स्तत्बूहयुत्क्रमजीवयात्र वलनं व्यासार्धतुल्यं कथमू ॥

 अनेनैवोत्कमज्यानिराकरणेन दृक्कर्मापि क्रमज्यया साध्यम् ।वलनमूलवाद्क्र्मणोऽ

तस्तयोरेकव वासना ।। ३०-७४ ।।

 इति श्रीभास्करीये सिद्धान्तशिरोमणिगोलवासनाभाष्ये मिताक्षरे ग्रहणवासना ।  वा० वा०-अथ वलनोपपतिः । वलति तद्वलनम् । द्रघु: सममण्डलमेव प्राची ।

क्रान्तिमण्डलगत्यैव ग्रहो गच्छति ॥ ग्राह्यस्तु प्रत्यक्षेण ग्राह्य एव ग्रहणसमये .