तद्वयस्तं वलने याम्ये व्यस्तं प्रत्यक्कुजेऽप्यतः ।। |
वा० भा०-अत्र गोले यथोक्तं क्रान्तिमण्डले विमण्डले च ग्रहं दत्त्वा विमण्डलस्थग्रहो- परि घुज्यावृत्ते च बढे यथेयं दृक्कर्मोपपत्तिः सुखेन बालेरपि बुध्यते तथायं सुत्रपाठः कृतोऽतः सुगमा । तथा अच्छायाधिकार इयमुपपत्तिः सम्यक् कथित व ॥ ३-९ ।
अथ शरस्यं स्पष्टीकरणमाह-
सत्रिराशिग्रहयुज्यानिघ्नखिज्योद्धृतः शरः । |
वा० भा०—अयं संक्षिप्तो गौणप्रकारः । मुख्यस्तु पूर्व व्याख्यात एव । तथापोह युक्ति- मात्रमुच्यते । विषुववृत्तात् क्रान्तिर्धवाभिमुखी। क्रान्त्यग्राच्छरः कदम्बाभिमुखः । कथं तेन तिर्यस्थेन सा संस्कार्या । अतः क्रान्त्यग्ने यद् ज्यावृत्तं तस्य शराग्रस्य च यदन्तरमृजु तेन संस्कृता सती स्फुटा भवति । तच्चान्तरं कोटिरूपम् । शरः कर्णरूपः । तद्वर्गान्तरपदं छ ज्यावृत्ते भुजः । एतत् त्र्यनं दिग्वलनजत्र्यस्रसंभवम् । तत्र सत्रिराशिग्रहक्रान्तिः कदम्बध्रुव- सूत्रयोरन्तरम् । तज्ज्या भुजः । तद्य ज्या कोटिस्त्रिज्या कर्णः । यदि त्रिज्ययेयं कोटिस्तदा शरेण केत्युपपन्नम् । कोटिरूपस्यैव शरस्य ध्रुवोन्मुखस्य ज्ययाक्षजं दृवकर्म कर्तुं युज्यते । शेषोक्तिः स्पष्टार्था ॥ १० ॥
१. अत्र बापूदेवः--
चरांशखाङ्कान्तरशिञ्जिनीघ्नी लम्बाशजीवा त्रिभजीवयाप्ता ।। |
२. अत्र परमाल्पद्युजीवघ्नो ग्रहद्युज्योधृतः शर इति पाठः साधुः ।।
सि०-५५