पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/477

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५३५
मध्यमाधिकारे कालमानाध्यायः

जिनाल्पकाक्षांशगुणत्रिभज्याघातो जिनज्याविष्हृतोऽस्य चापम् ।
तेन त्रिभोनेन समः प्रतीच्यां प्राक् सत्रिभेण द्युचरः कुजे चेत् ॥१९॥
दृङ्मण्डलाकारतयापवृत्तं तद्याम्यसौम्यं क्षितिजं तदा स्यात् ।
क्षिप्तोऽपि खेटः परमेषुणात्र याम्योत्तरत्वात् क्षितिज न जह्यात् ।।२०।।
दृक्कर्मसंभूतफलद्वयस्य नाशो भवेदत्र धनर्णसाम्यात् ।
नैवोत्क्रमज्याविधिनाऽत्र साम्यं दृकर्म कार्यं क्रमजीवयातः ॥ २१ ।।
तथैव नाशो वलनद्वयस्य साम्याद्दिगन्यत्ववियोजनेन ।
न साम्यमत्रोत्क्रमजीवया स्यात् क्रमज्ययातो वलनं विधेयम् ॥ २२ ।।

 वा० भा०-यत्र चतुविंशतिभागेभ्योऽल्पोऽक्षस्तत्राक्षज्यात्रिज्ययोघर्धातो जिनांशज्याभक्तः। यावच्चापं तावतो भुजस्य क्रान्तिज्योत्तराक्षज्यासमा भवतीत्यर्थः । तद्यथा । अ3ट्र । एषां ज्या १२१० । अस्यास्त्रिज्यागुणाया जिनज्याहृतायाश्चाप राशिद्वयम् । अनेन सत्रिभेण समो ग्रहो ५ यदा पूर्वक्षितिजे । अथवा वित्रिभेण ११ समः प्रत्यक्क्षितिजे ग्रहो भवति तदा वृषभान्तः खस्वस्तिके । अतो दृङमण्डलाकारं क्रान्तिवृत्तं स्यात् । अस्य क्रान्तिवृत्तस्य क्षितिजप्रदेशे क्षितिजमेव दक्षिणोत्तरं स्यात् ॥ यतस्तदा।कदम्ब: क्षितिजे वर्तते । अतः क्षितिजस्थो ग्रहः परमेणापि शरेण कदम्बोन्मुखेन विक्षिसःक्षितिजं न त्यजति । क्रान्तिवृत्तग्रहस्थानमेवोदयलग्नं स्यात् । एवं दृक्कर्मफलयोर्धनर्णयोः साम्यं भवति । उत्क्रमज्याविधानेन तयोर्न साम्यं स्यात् । अतः क्रमज्ययैव कर्तव्यम् ॥ एवं तत्रैव वतमानस्याकस्य वलनाभावः । वलनयोभिन्नदिशोः साम्यात् । उत्क्रमज्यया नैव साम्यमित्यर्थः । अथ यत् खस्वस्तिकगे रवाविति श्लोकद्वयं पूर्व व्याख्यातमेव ॥ १८-२२ ।

 अथ अत्न्मथ्भ्रमे कारणमाह-

गर्वाद्रसराभस्यात् परविश्वासात् प्रमादतश्चापि ।
मुह्यन्त्यपि मतिमन्तः किं मन्दोऽन्यैस्तथा चोक्तम्' ॥ २३ ॥
गणयन्ति नापशब्दं न वृत्तभङ्गं क्षयं न चार्थस्य ।
रसिकत्वेनाकुलिता वेश्यापतयः कुकवयश्च ॥ २४ ।।

 वा० भा०-स्पष्टम् ॥ २३-२४ ।

  इति श्रीभास्करीये गोलभाष्ये मिताक्षर उदयास्तदृक्कर्मवासना ।


१. किमुतान्येऽन्यस्तथा चोत्तम् । इति पाठान्तरम् ।