अथ शृङ्गोन्नतिवासना
तत्र शुक्लत्वे कृष्णत्वे च कारणमाह
तर्राणिकिरणसङ्गादेष पीयूषपिण्डो दिनकरदशि चन्द्रश्वन्द्रिकाभिश्वकास्ति। |
यद्याम्योदक् तपनशशिनोरन्तरं सोऽत्र बाहुः |
१. अत्र श्रीपति:-
घाम्ना धामनिधेरयं जलमयो धत्ते सुधादीधितिः
सद्यःकृतमृणालकन्दविशदच्छायां विवस्वद्दिशि ।
हम्ये घर्मघृणेः करैर्घट इवान्यस्मिन् विभागे पुन
बाँलाकुन्तलकालता कलयति स्वेच्छा तनोश्छायया ।
सि० शे० १० अ० २ श्लो० ॥
२. अर्धबिम्बसदृशे सिते विधोः खण्डिते वपुषि चार्धजीवया ।
रूपमुद्वहति लोललोचना भालपट्टभवमेणलाञ्छनः ।
सि० शे० .१० अ० २६ श्लो० ।।
३. अत्र ज्ञानराजः--
भानुश्चेत्। प्रतिबिम्बितो जलमयो शीर्ताशुगोले दिवा
निस्तेजा निशि सुप्रभः कथमथो किं सूर्यबिम्बासमः ।
गोलार्ध रवि सोज्ज्वल च सकल न स्यात् तडागे यथा
मासार्धेऽखिलदृश्यतेति गणकान् ज्ञानाह्वयः पृच्छति ॥