वा० भा०-स्पष्टम्। अस्य वासना पूर्व कथितैव। तथापि किचिदिहोच्यते । प्राग्वदृभितेरुत्तरपाश्वें चन्द्रकक्षां रविकक्षां च विलिख्य तत्रोध्र्वरेखां तिर्यग्रेखां च कृत्वा चन्द्रकक्षोध्र्वरेखा संपाते चन्द्रबिम्बं विलिख्येदं दर्शयेत् । तिर्यग्रेखाया उपरि चन्द्रकक्षाव्यासार्धष्मितेऽन्तरेऽन्यां तिर्यग्रेखा कुर्यात् । सा रेखा प्रत्यग्रविकक्षायाँ यत्र लग्ना तत्र स्थित एवार्क ऊष्र्वरेखावच्छिन्नचन्द्रबिम्बार्धपश्चिमतः शुक्लं भवति । तस्यार्धमधस्तनं मनुष्यदृश्मम् । तत्रस्थेऽर्के व्यर्केन्दुः सपादचतुर्भागोनं राशित्रयं भवति २॥२५॥४५॥। एतावत्येव व्यर्केन्दुभुजे बिम्बार्धं पश्चिमं पूर्वं वा शुक्लं भवितुमहति । न त्रिभे ॥ १-५ ।
अथाध्यायोपसंहारश्लोकमाह
ईषदोषदिह मध्यगमादी ग्रन्थगौरवभयेन मयोक्ता। |
वा० भा० -हि यस्मात् कारणात् गोले ज्ञात इदमेव फल यदश्रुतापि वासनोह्यते।।६।।
व्इति श्रीभास्करीये सिद्धान्तशिरोमणिगोलभाष्ये मिताक्षरे
शृङ्गोन्नतिवासनाध्यायः । ग्रन्थसंख्या १८ ॥
वा० वा०--क्रान्तिवृत्तग्रहस्थानमित्यादिदृक्कर्मवासनाद्य पूर्व प्रतिपादितम्। शृङ्गोन्नतिवासनाद्यमपि पूर्वमुक्तम् । वासनाप्रतिपादनमुपसंहरति--ईषदीषदिति ॥१-६॥॥
श्रीमत्कौङ्कणवासिकेशवसुतप्राप्तावबोधाद्बुधाद्, |
अथ यन्त्रध्यायः
अथ यन्त्राध्यायो व्याख्यायते ।तत्रादौ तदारम्भप्रयोजनमाह
दिनगतकालावयवा ज्ञातुमशक्या यतो विना यन्त्रः । |
वा० भा०-स्पष्टम्। १-२ ॥