पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/482

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४०
सिद्धान्तशिरोमणौ गोलाध्यये

चिह्न कार्यम् । तदेव भवलये नक्षत्रचिह्न स्यात् । गोलाद्ग्रहवेधस्तु प्रागुक्त एव । इति गोलयन्त्रम्। ३-४ ।

 अथ नाडीवलयमाह-

अपवृत्ते कुजलग्ने लग्नं चाथी खगोलनलिकान्तः ।
भूस्थं ध्रुवयष्टिस्थं चक्रं षष्टया निजोदयैश्चाङ्कयम् ॥ ५ ।।
व्यस्तैर्यटीभायामुदयेऽर्क न्यस्य नाडिका ज्ञेयाः ।
इष्टच्छायासूर्यान्तरेऽथ लग्न प्रभायां च ।। ६ ।


१. अत्रार्यभट:-

पूर्वांपरमध ऊध्र्व मण्डलमथ दक्षिणोत्तरञ्चैव ।
क्षितिज समपाश्वस्थ भानां यत्रोदयास्तमयौ ॥
पूर्वापरदिग्लग्नं क्षितिजाग्रयोश्च लग्नं यत् ।
उन्मण्डलं भवेत्तत् क्षयवृद्धी यत्र दिवसनिशोः ॥
काष्ठमयं समवृत्तं समन्ततः समगुरु' लघु गोलम् ।
पारताँतैलजलैस्तं भ्रमयेत् स्वधिया च कालसमम्॥

तथा च लरल:‌-

इष्टं सुवृत्तवलयं लघुशुष्कदारुनिर्मापितं विविधशिल्पवदाततक्ष्णा ।
गोल समं सलिलतैलवृषाङ्कबीजै: कालानुसारिणममुं भ्रमयेत्स्वबुद्धया।

        शि. वृ. गो. ८ अ. १ अ.

अन्यच्च सिद्धान्तशेखरे—

चक्रांशाङ्कं क्रान्तिवृत्तं विदध्यादुर्वीवृत्तं याम्यवृत्तश्च तद्वत् ।
नाडीवृत्तं षष्टिभागाडूितं हि याम्योदकूस्था यष्टिरुवींजमध्ये ॥

        १९. अ. ३ श्लो०

अपि च ज्ञानराजः- –

अथ    सुसरलवंशस्वर्णताम्रादिवृत्तै
विरचितसमभार्गः गोलयन्त्रं विधाय।
ध्रुवयुगगतयष्टिगोलमध्यस्थितायाः
समुदितजलपूर्ण स्तम्भसूत्रेण वेश्या ।
क्षरति सुषिरनीरे गोलयन्त्रं सखेट
भ्रमति समयसाम्ये नैव तद्वद् विधेयम् ।
समुदितमखिल शर्करापारदाद्ये:
स्वयमिह वहतीदं ' ज्ञानराजोक्तयन्त्रम् ॥