वा० भा०-अत्र दशभिः शुल्बस्य पलैरित्यादि यद्घटीलक्षणं कैश्चित् कृतं तद्युक्तिशून्यं दुर्घटं चेत्येतदुपेक्षितम् । दृष्टप्रमाणाकारसुषिरं पात्रं घटीसंज्ञमङ्गीकृतम् । द्युनिश्शनिमज्जनसंख्यया यदि षट्त्रशच्छतानि पानीयपलानि लभ्यन्ते तदेकेन निमज्जनेन किमिति त्रैराशिकम् ।। इति घटीयन्त्रम् ।।८।
वा० वा०-'घटीयन्त्रमाह-घटदलरूपा घटितेति । एतदेव कपालयन्त्रमिति ॥ ८ ।
सत्र्यंशमाषत्रयनिर्मिता या हेम्नः शलाका चतुरङ्गला स्यात्। |
१. अत्र लल्ल:-
दशभि. शुल्वस्य पलैः पात्रं कलसार्द्धसन्निभं घटितम् । |
शि० वू० गो० ७ अ० ३४-३८ श्लो० ।
अन्यच्च ब्राह्मस्फुटसिद्धान्ते-
घटिका कलशार्धाकृतिताम्रं पात्रं तलेऽपृथुच्छिद्रम् ॥ |
२२ अ० ३७ श्लो०।
अपि च सिद्धान्तशेखरे०-
शुल्वस्य दिग्भविहितं पलैर्यत् षडङ्गुलोच्चं द्विगुणायतास्यम् । |
१९ अ० १९-२० ।
एवंश्च सिद्धान्तसुन्दरे-
घटदलघटिता घटीनिरुता तलसुषिरा पलषष्टितश्चपूर्णा । |
१९ अ० २ श्लो० ॥