वा० भा०-धातुमय दारुमयं वा समं चक्र कृत्वा तलेम्यां श्रृंहूलादिराधार: शिथिल: कार्यः । चक्रमध्ये सूक्ष्मं सुषिरमाधारात् सुषिरोपरिगामिनी लम्बवदूध्वरेखा कार्या । तन्मत्स्यतोऽन्या तियंग्रेखा चात्र कार्या । तच्चक्रतं परिधौ भ';णांशैरङ्कयित्वाधारात् त्रिभ इति नवतिभागान्तरे तिर्यग्रेखातत्परिधिसंपाते धात्री क्षितिः कल्प्या । भार्थेऽन्तर ऊध्वरेखानेमिसंपाते खार्ध कल्प्यम् । सुषिरे सूक्ष्मा शलाका प्रवातव्या । सा चाक्षसंज्ञा । तच्चक्रमर्काभिमुखनेमिको च यथा भवति तथाधारे धार्यम् । तथा घृतेऽक्षस्य छाया परिधौ यत्र लगति तत्कुञ्जचिन्हयोरन्तरे येंऽशास्ते रवेरुनतांशा: ये छायाखार्धयोरन्तरे ते नताशा ज्ञेयाः । एवमत्र नतोन्नतांशज्ञानमेव भवति ॥ अतोऽन्यैर्घटिका अप्यानीताः । तद्यथा । तस्मिन् दिने गणितेन मध्यंदिनोन्नतांशान् दिनार्धमानं च ज्ञात्वानुपातः कृतः । यदि मध्यंदिनोन्नतांशैर्दिनार्धनाड्यो लभ्यन्ते तदेभिः किमित्येवं स्थूला घटिकाः स्युः ॥ १०-१२ ।।
अथ वेधेन ग्रहज्ञानमाह--
पैत्रर्क्षपुष्यान्तिमवारुणानामृक्षद्वयं नेमिगतं यथा स्यात् । |
वा० भा० - तत्र यन्त्रस्याधोनेम्यां दृष्टि कृत्वोध्वनेम्यमुक्तक्षणां मध्ये भद्वितयं युगपन्नेमिगतं यथा स्यात् तथा यन्त्रं स्थिरं कृत्वा नेम्यां धिष्ण्योरेकतरं स्थानमङ्कयेत् । ततोऽग्रे पृष्ठतो वा दृष्टि चालयित्वा ग्रहं विध्येत् ।• ग्रहः प्रायोऽक्षगतो दृश्यते ॥ अक्षमूलस्य ग्रहस्य चान्तरं शरो ग्रहावधिः । अक्षमूलं नेम्यां यत्र लग्नं दृश्यते तत् स्थानमप्यङ्क्यम् ॥ अथ भग्रहाङ्कयोर्मध्ये येंऽशास्तेभंध्रुवो युतः स्फुटग्रहो भवति । यदा ग्रहात् पश्चिमस्थं नक्षत्रम् । यदा पूर्वस्थं नक्षत्रं तदा भधूिवो होनः स्फुटग्रहो भवति। अथवाल्पशरं नक्षत्र रोहिण्याद्य ततो दूरेऽन्तरे यदा ग्रहस्तदा तावेव विद्ध्वा प्रोक्तवद्ग्रहज्ञानम् ।। इति चक्रयन्त्रम् ।। १३-१४३ ।।
वा० वा०-'चक्रयन्त्रमाह चक्रमिति। तन्मध्ये सूक्ष्माक्षमिति। तदिति। *पैत्र्यक्षपुष्पान्तिमवारुणानामिति । नेमिस्थदृछ्येति ।प्रत्यक् स्थिते भ इति । दृङ्मण्डले प्रस्फुटकाल उक्त इति । इदमेव चक्रयन्त्रमक्षपत्रभपत्रयुतं यन्त्रराज इत्याहुः ।
१. अत्र लल्लोतिः शिष्यधीवृद्धिदे--
वृत्तं कृत्वा फलकं षड्वर्गाङ्कं तथा च षष्टश्यङ्कम् । |
२. पित्र्यक्ष इति० क ख पु० ।