सुलभाख्यमस्यैव नामेति रामेणोत्तम् । तत्रैवं यन्त्रनिर्माणम्—मृदा धातुना दारुणा वा कोष्टकागारं श्लक्ष्ण वर्तल कुर्यात्। तत्र यन्त्रानुमानेनाद्धङ्गलादिपाल्यर्थ स्थलं समन्ततस्त्यक्त्वा मध्ये समवेधं वृत्तं खननेन सम्पादितमिव तथा `रचनीयं यथा पाल्यन्तर्दत्तान्यक्षपत्राणि भपत्रेर्णकेन युतानि पालितुल्यान्येव भवन्ति । कोष्टकागारे यावान् वेधस्तावानेव भपत्रयुताक्षपत्रचये पिण्डः कार्य इत्यर्थ: । एकस्मिन् भपत्रे यावान् पिण्डस्तावद्विगुणितस्थौल्यं भपत्रं कार्यमिति विशेषः । ततः कोष्टकागारे पालौ तदन्तश्च दक्षिणोत्तरपूर्वापररेखे कायें । भपत्रेऽक्षपत्रेषु च दक्षिणोत्तरपूर्वापररेखे च कार्ये । सर्वेषु दक्षिणदिगङ्क उच्चस्थानं सौम्यदिगङ्को नीचस्थानमिति कल्पनीयम् । दक्षिणदिगङ्कोपरि तदङ्कात् पूर्वपश्चिमतो नातिदूरे प्रदेशे च किञ्चित्त्रिकोणाकारोद्यत् किरीट योज्यम्। किरीटस्थयाम्यदिगन्ते सुषिर कार्यम्। तत्र वृश्चिककण्टकबद्धकाग्रद्वया मुद्रिका तदग्रे च वृत्तमुद्रिका तस्यां चाधारसूत्र क्षेप्यम्। किरीटसुषिरे कीलस्तथा निवेश्यो यथेद मुद्रिकादिदृढं स्याद्यन्त्रधारणार्थम्। तेन सूत्रण यन्त्र धृत्वा किरीट-
चक्राख्यं यन्त्रमिदं दलं धनुर्यन्त्रमाहुः । |
गी० ८ अ० २०-२३ श्लो० ।
अपि च ब्राह्मस्फुटसिद्धान्ते--
परिधौ मगणाशाङ्क मीनान्तं चक्रतो विद्धवा । |
२२ अ० १५ २लोo ।
अन्यच्च सिद्धान्तशेखरे——
कृत्वासुवृत्तं फलक हि षष्टया चक्रांशर्केश्चाडूितमत्र मध्ये । |
१९ अ० १२-१३ शश्लो० ।।
अत्र मुनीश्वरोक्तिः सिद्धान्तसार्वभौमे-
चक्रं कार्यं धातुजं काष्ठजं वा स्निग्धं तुल्खाङ्गरामोन्मितांशाः |