वा० भा०--व्यनक्तु प्रकाशयतु । कः । सः । स कः । रविः सूर्यः । काम् । गिरं वाचम् । केषाम् । नः अस्माकम् । किं विशिष्टां वाचम् । सूक्तिमुचं सूक्तिं मुञ्चतीति सूक्तिमुक् तां सूक्तिमुचम् । कथम् । द्राक् झटिति । किंविशिष्टो रविः । गीर्वाणवन्द्यः । गीर्वाणा देवास्तैर्वन्द्य इति गीर्वाणवन्द्यः । पुनः किंविशिष्टो रविः । यत्र यस्मिन् रवाविदं जगत् त्रातुं रक्षितुं निशि मृतपतितमिवोत्थापयितुं समभ्युद्तेऽस्यां पृथिव्यां समभितः समन्तादुद्गते सति वर्त्तते प्रवर्तन्ते । के क्रतवः । यज्ञाः पञ्च महायज्ञा दर्शपौर्णमासयागज्योतिष्टोमादयः यत्र यत्र यदा यदा स भगवानुदेति तत्र तत्र तदा तदा यज्ञा प्रवर्तन्त इत्यर्थः । समभ्युद्गत इत्येवं वदताऽऽचार्येणोदितहोमिनामेव पक्षोऽङ्गीकृत इति नाशङ्कनीयम् । यतोऽनुदितहोमिनामप्युदयात् प्रागासन्न एव यागकाल इति भावः । न केवलं यज्ञाः प्रवर्त्तन्ते । अत एव कारणाद्दीव्यन्ति च क्रीडावन्तो द्योतन्ते । क्व । विवि स्वर्गे । के । देवाः । किविशिष्टाः । शतक्रतुमुखा इन्द्रादयः । यतस्ते यज्ञांशभुजः । पुनः किविशिष्टे रवौ । ध्वान्तध्वंसविधौ ध्वान्तमन्धकारस्तस्य ध्वंसं विदधातीति ध्यान्तध्वंसविधि स्तस्मिन् । पुनः किविशिष्टे । विधौतविनमन्निःशेषदोषोच्चये विधौतः प्रक्षालितो विघ्नमतां प्रणतानां निःशेषदोषोच्चयः सकलपापसमूहो येन असौ विधौतविनमन्निःशेषदोषोच्चयस्तस्मिन् । पुन। किंविशिष्टे । जलजिनीबन्धी । कमलिनीबन्धी। अत्र जलजिनीशब्देन कुमुदिन्यपि गृह्यते। यतस्तामपि चन्द्रबिम्बसंक्रान्तै: स्वरश्मिभिरेवोल्लासयतीति । एवं जलजस्थलजाद त्रैलोक्योवरर्वातनामुपकारप्रकृतिः स गिरं दिशतु । अहो एवं विशिष्टादपि भगवतः सूर्यात् किं वाङ्मात्रस्याशंसन कृतम्। सत्यं तदप्युच्यते । इह हि कवीनां काव्यरचनोद्यतानां सद्वाक्यप्रवृतिरेवा भीष्टमिति भाव ।। १ ।।
॥ श्री गणेशाय नमः ।।
वा० वा०-यस्मात् सर्वमिदं जगत्समुदितं स्वोत्सृष्टभूतैः पुरं, |
१. शर्वाय ख, ग, पु० । २. गृहिणां ख, ग, पु० ।