पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/491

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४९
यन्त्राध्याय:

समयेद्भूमिमथापि चिह्नद्वयान्तरं सप्तसमाहतश्च ।
सूर्याहतं वा निजमानयुक्तं कृत्वा वदेदीप्सिततुङ्गताङ्ग्यः ।।

 यन्त्रराजे प्रत्यंशं सप्ताङ्गलद्वादशाङ्गलशङ्कच्छायाः सिद्धा एव कृताः सन्तीति तदभिप्रायेण कोष्टट्टितयाच्छायाँ ग्राह्यति महेन्द्रसूरिणोक्तं उन्नतांशेभ्यः छायाद्वयं सम्पाद्य तुङ्गता वा ज्ञेया नक्ष |ध्रुवका बाणाश्च नक्षत्रध्व काधिकारोक्ता एव ग्राह्याः ।एतदेव नक्षत्रजातं यन्त्रे निवेश्यं त्रैवणिकैरेतान्येव नक्षत्राणि परिचीयन्ते ।नहि यवनपरिचितैः किञ्चित्प्रयोजनमस्माकम् ।अपरिचितानां वेधायोगेनानर्थक्यापत्तेः ।दृक्कर्मापि प्रागुक्तमेव ग्राह्य यवनसम्मतं तूपेक्षणीयम् ।महेन्द्रसूरिणा प्रकारद्वयेन यवनमतमाश्रित्य दृक्कर्मोक्तं तत्र प्रथमप्रकारः सुतरामयुक्त एव ।रोहिण्युदाहरणादन्यनक्षत्रदृक्कर्मानयने महदन्तरितत्वाद्युक्तिशून्यत्वाच्च ।

 अत्रोपपत्तिरुच्यते--गोलाद्यथा कालादिज्ञानं संपद्यते तदविसंवादेन यन्त्रा न्तरात्सम्पादनीयमिति यन्त्रराजात्सम्पादितम् । गोलस्थमेरुचिह्नात् कर्कोहोरात्रं रसाङ्गांशैर्भवति । मेषादिद्युरात्रं नवतिभागैर्मकरादिद्युरात्रं परमाकपिमयुक्तनवति भागैरेव भवति । तत्राऽत्र यन्त्रे त्रिशन्मितमेव मकरवृत्तं कल्पितम् । मेषवृत्तप्रमाणमनुपातेन । पराकंक्रान्तिज्यायुक्तत्रिज्यया त्रिशल्लभ्यन्ते तदा परार्कक्रान्तिज्योत्थयुज्यया किमिति मेषप्रमाणं भवति १९/३८ ।।

 ननु मेषादिद्युज्यायास्त्रियातुल्यत्वेनेच्छास्थाने त्रिज्या ग्रहीतुं युज्यते न परमार्कक्रान्तिज्योत्थयुज्येति चेत् । सत्यम् । गोले त्वेवमेव । यन्त्रस्य वृत्तक्षेत्रत्वेन परमक्रान्त्युत्थघृज्यैव ग्राह्या । यन्त्रस्य मेरुस्थानात् खगुणपरिणतपरार्कक्रान्तिज्या तुल्ये याम्यसूत्रे क्रान्तिवृत्तकेन्द्रमिति खगुणपरिणतपरार्कक्रान्तिज्या भुजः। यत्र केन्द्रात् क्रान्तिवृत्तस्थमेषादिचिहं प्रति नीयमानं पूर्वापरसूत्रशकलं खगुणपरिणतषट्ष ष्टिभागज्या कोटिः ।खगुणपरिणतत्रिज्याक्रान्तिवृत्तकेन्द्राद् वृत्तस्थमेषादिचिह्न यावत्सूत्रं कर्णः। इदं क्षेत्रं यन्त्रोपरि प्रत्यक्षतो दृश्यत इति परार्कक्रान्तिज्योत्थ घृज्यैव गृहीता । गोलस्थमेषादिर्येन मार्गेण भ्रमति तद्गोले मेषादिद्युरात्रवृत्तं तथा यन्त्रस्थमेषादिर्येन मार्गेण याति ययन्त्रस्थमेषादिद्युरात्रमिति न कोऽपि दोषः ।

 एवं कर्कादिद्वारात्रवृत्तेष्वपि वेद्यम् । तस्मात् परार्कक्रान्तिज्योत्थद्युज्या खगुणा परार्कक्रान्तिज्यायुक्तत्रिज्याभक्ता । [ 'मेषप्रमाणं भवतीति सिद्धम् ।

 महेन्द्रसूरिणा तु कोटिभवोत्क्रमज्या त्रिंशद्गुणापक्रमकोटिमौर्वीहृतेतिं गौरवेण ] मेषप्रमाणमानीतम् ।

 तत्रोपपत्तिः--परमापक्रमोत्थवृज्यैवात्र कोटिशब्देनोच्यते । पूर्वं सिद्धौ यौ गुणहरौ परक्रान्यिकोट्युत्क्रमज्यया गुणितौ जातं गुणस्थाने परक्रान्तिकोटयु रक्रमज्याद्युज्याघातः । हरस्थाने कोटिक्रमज्यावर्गः। अत्र भुजज्या शब्देन परार्क-


१. अयमंशः खपुस्तकेनोपलभ्यते ।

 सि०-५७