पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/492

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५०
सिद्धान्तशिरोमणी गोलाध्याये

क्रान्तिज्या गृह्यते।भुजज्यात्रिज्यायोगो भुजज्यात्रिज्यान्तरेण कोटद्युत्क्रमज्यातुल्येन गुणितः कोटिक्रमज्यावर्ग एव भवति।कोटिज्यावर्गो नाम दोज्यॉत्रिज्ययोर्वर्गान्तरं तद्भुजज्यात्रिज्यायोगान्तरघाततुल्यमिति प्रसिद्धेः। पुनरेतौ गुणहरौ कोटिक्रमज्यापरपर्यायद्युज्ययापर्वाततौ गुणस्थाने कोटिभवोत्क्रमज्या जाता। हरस्थानेऽपक्रमकोटिज्यैव जाता वगंस्य समद्विघातरूपत्वात्।कोटिभवोत्क्रमज्या 'त्रिशद्गुणापक्रमकोटिमौवीहृतेति सम्यगुक्तम्।

 कर्कवृत्तमानस्योपपतिः-यन्त्रकेन्द्रात्कर्कादिः परमार्कक्रान्त्युत्थकोटद्युत्क्रमञ्ज्यातुल्यान्तरेणैव समन्ततो भ्रमतीति तावदेव कर्कवृत्तप्रमाणं भवति। क्रान्तिवृत्तकेन्द्रस्य क्रान्तिवृत्तस्थकर्कादिस्थानस्यान्तरं त्रिज्यातुल्यम्।अत्र क्रान्तिवृत्तकेन्द्रयन्त्रकेन्द्रयोरन्तरं क्रान्तिज्यातुल्यं शोध्यम्।शोधिते भुजज्योना त्रिज्या कोटद्युत्क्रमज्येति प्रसिद्धेर्जातं कोटिभवोत्क्रमज्यातुल्यं कर्कप्रमाणम्।

 खगुणपरिणामायानुपातः।यदि परार्कक्रन्तिज्यायुक्ता त्रिज्यायास्त्रिशन्मानं तदा कोटिभवोत्क्रमज्यायाः कियदिति कर्कमानं भवति १२॥५१ अत्रापि महेन्द्रसूरिणा गौरवं कृतम्। भाज्यहरौ भाज्येनैव गुणितौ जातो भाज्यस्थाने कोटद्युत्क्रमञ्ज्यावगीं नवशतगुणः।हरस्थाने पूर्वोतन्यायेन जातः कोटिक्रमञ्ज्यावर्गीस्त्रशद् गुणः।अयन्तु पूर्वोक्तमेषप्रमाणवर्गत्रिशदंशतुल्य एव युक्त्या सिद्ध इति तुलाज मूानस्य,कृतिः खरामैर्हृता स्मंशादिकुलीरमानमित्युक्तम्।।क्रान्तिवृत्तव्यासार्द्धं त्रिज्या सैव क्रान्तिवृत्तव्यास इत्युच्यते।

 खगुणपरिणामोऽनुपातेन।यदि परार्कक्रान्तिज्यायुक्तत्रिज्यया त्रिशल्लभ्यते तदा त्रिज्यया किमिति क्रान्तिवृत्तव्यासप्रमाणं यन्त्रे भवति।

 महेन्द्रसूरिणाऽत्र प्रकारान्तरं कृतम्।परक्रान्तिज्योना त्रिज्याकोटद्युत्क्रमञ्ज्याखण्डद्वयात्मिका।पक्रांज्या १ त्रिज्या १ इयं नरोत्क्रमञ्ज्या नरमौविकया गुणिता जातं खण्डद्वयम्।पक्राद्युज्या १ परक्रान्तिज्योत्पन्नद्युज्या त्रिज्याघातः १ इदं क्रान्तिज्यायुक्तत्रिज्याहृतं जातं खण्डद्वयं सच्छेदम्।इदं समच्छेदेन द्युज्यायुतं जातं खण्डमेकं द्युज्यात्रिज्याघातो द्विगुणः।हरस्तु परक्रान्तिज्यायुक्तत्रिज्यायोगतुल्यः।इदमधितं जातं द्युज्यात्रिज्याघाततुल्यमुपरि।हरस्तु यथास्थित एव।इदं त्रिशद्गुणं द्युज्याभक्ततं जातं त्रिशद्गुणत्रिज्यापरक्रान्तिज्यायुक्तत्रिज्यया भाज्येति।यन्त्र केन्द्रात् क्रान्तिवृत्तकेन्द्र परक्रान्तिज्याग्रे भवति।

 तस्य खगुणपरिणामार्थमनुपातः।यदि परार्कक्रान्तिज्यायुक्तत्रिज्यया खगुणाः लभ्यन्ते तदा परार्कक्रान्तिज्यया किमिति क्रान्तिवृत्तकेन्द्रं सिद्धयति।क्रान्तिवृत्त व्यासानयने यदधितं तदिदं पूर्वदलमित्युच्यते। पूर्वदलं द्युज्यात्रिज्याघातः परार्कक्रान्तिज्यायुक्तत्रिज्याभक्त इति सिद्धम्।

 इदं समच्छेदेन कोटिगुणापरपर्यायद्युज्यातः शोध्यम्।तत्र खण्डत्रये धनर्णयोस्तुल्ययोर्नाशे जातमेकमेव खण्डं द्युज्याक्रान्तिज्याघातः परार्कक्रान्तिज्यायुक्तत्रिज्यया भाज्यया भाज्य इति सिद्धम्!इदं खगुणगुणं द्युज्याभक्तं कृतम्।एवं कृते खगुणपरिणतार्कपरमक्रान्तिज्यैव केन्द्रमिति जातमेव।