पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/496

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५४
सिद्धान्तशिरोमणी गोलाध्याये

 सूर्यो यस्मिन् राश्याद्यवयवे स प्रदेशोऽत्र यन्त्रे पूर्वरेखायां यत्र लगति तच्चिहृस्य मेषवृत्तस्य पूर्वरेखायां यदन्तरं तदुक्मण्डले क्रान्तिज्या भवति । सा मेषवृत्तान्ताद्बहिश्चेतदा दक्षिणाऽन्यथा सौम्या भवति । एवं स एव सूर्यराश्याद्यवयवः क्षितिजे यत्र लगति तस्य मेषवृत्तपूर्वक्षितिजसम्पातस्य क्षितिजे यदन्तरं साग्रा भवति तज्ज्या कार्या। सूर्याधिष्ठितराश्याद्यवयवो मेरुचिह्वात् समन्ताद्येन मार्गण वृत्तरूपेण भ्रमति तत्तदा द्युरात्रवृत्तं मस्यादिना सम्पादनीयम् ।

 अस्मिन् वृत्ते उन्मण्डलक्ष्मावलयान्तरं यावत्तस्य ज्या कुञ्ज्या भवति । कुञ्ज्या भुजः ।। क्रान्तिज्या कोटिः । अग्रा कर्णः । एवं पशिचमक्षितिजेऽपि ।

 एवमग्राग्रयोनिबद्धसूत्रमुदयास्तसूत्रं स्यात् । उत्तरगोले सूर्याधिष्ठितराश्यवयवो यत्र निरक्षभूजे लगति तस्माद्भाराढयं सूत्रं लम्बरूपं यावत्क्षितिजपर्यन्तं तावानुद्वृत्तशङ्कुः ॥ अनेनोन्मण्डलशङ्कुना खण्डद्वयमग्रायाः सम्पादितमादिखण्डमग्राखण्डं चेति । उद्वृत्तर्ना कोटिः । अग्राग्रखण्डं भुजः । कुज्या कर्णः । उन्मण्डलशङ्कर्भुजः । अग्रादिखण्डं कोटिः । क्रान्तिज्याकर्णः ।

 सूर्यो यस्मिन् द्युरात्रवृत्तविभागे तस्माल्लम्बसूत्रं क्षितिजे यत्र पतति तच्चिह्नस्य तथाग्राग्रस्य यदन्तरं तच्छडूतल तस्मिन् काले। शङ्कतल भुजः। उन्नतलवज्या सशङ्कः कोटिः । क्षितिजात् सूर्याधिष्ठितद्युरात्रवृत्तविभागं यावदुब्रतकालज्या तिर्यंगिटहृतिसंज्ञा द्युरात्रवृत्ते कर्णः ।

 अक्षपत्र याम्योत्तररेखायां यत्र नवत्युनतांशकेन्द्र तत्स्वीयखमध्यस्थानम् । स्वीयखमध्यस्थानातू क्षितिजमेषवृत्तसम्पातावधि रेखेनेये तत्सममण्डलाद्ध स्यातू । तत्सममण्डलस्य पूर्वकृतद्युरात्रवृत्तस्य च यः सम्पातस्तत्रस्थे रवौ समशङ्कः स्यात् ।

 क्षितिजे द्युरात्रवृत्तसममण्डलसम्पाते च रवी लापिते द्विस्थानसंलग्नमृगास्यमध्ये कालो भवति । अद्य सूर्योदयादाभिर्घटीभिः सममण्डलाकों भविष्यति । तत्र पूर्वापरैव छाया। महानुपयोगोऽस्या दिक्साधने। समशङ्करयमुतरगोले स्वात्पलात् स्वल्पेऽपमे प्रत्यक्षमुत्पद्यते । अयं समशङ्कः कोटिः । अत्राग्राशङ्कतलयोर्दिगन्यत्वं तुल्यत्वं च संभवतीत्यग्रा क्षितिजे भुजः । अत्र या हृतिः सा तद्धृतिसंज्ञा गता कर्णः । पूर्वसूत्रे क्रान्तिज्या भुजः । समशङ्कः कर्णः । पूर्वसूत्रादुपरि तद्हृतिखण्डं कुज्योना तद्धृतिः कोटिः । उन्मण्डलशङ्कनोनः समशङ्कः कोटिः । कुज्योनतद्धृतिः कर्णः । अग्रादिखण्डं भुजः । अग्राग्रखण्डोनाग्राग्रादिखण्डं भवति ।

 द्वयोः क्षेत्रयोरन्तरा क्षेत्रमुत्पादितं पूर्वसूत्रादुपरीति स्पष्टम् ।

 यन्त्रोपलब्धानि क्रान्तिज्याग्रादीनि त्रिज्या ३४३८ गुणानि यन्त्रस्थत्रिज्याभक्तानि सिद्धान्तोत्तानि भवन्ति ।

 अक्षपत्रे मेषवृत्तयाग्योत्तरसूत्रसम्पाते यावन्त उन्नतांशास्तेषां ज्या लम्बज्या कोटिः । तत्र ये नतांशास्तेषां ज्या लम्बज्या भुजः । त्रिज्या कर्णः । मेरुचिह्नात्पूर्व-