यन्त्रराजादियन्त्रैर्नक्षत्रवेधेन यद्रात्रिगतकालज्ञानमुक्त तत्पठितनक्षत्रछायाधिकारस्य नक्षत्रमध्यास्तोदयलग्नज्ञानतः सुखेन भवत्येवेति चक्रादियन्त्रदिनगतकालावयवज्ञानमुक्तम् । अत एवाधिकारारम्भे दिनगतकालावयवा इत्युक्तम् ॥ ११-१४३ ।।
अथ चापं तुर्यंगोलं चाह-- |
अत्र यन्त्रेषु गोलो गोल एव । नाडीवलयं विषुवद्वृत्तम् । तयोर्घटिकाज्ञाने गोलयुक्तिरेव वासना ॥ सम्यग्ध्रुवाभिमुखयष्टिके गोले धृते यथोक्ताः स्वत एव घटिका ज्ञायन्त इत्यर्थः ॥ यत्तु नाडीवलयं चक्रं कृत्वा यष्टयां प्रोतं तत् षड्वर्गाङ्कनार्थमेव । यत्तु चक्रतं तद्दूङमण्डलम् । तत्र नतोन्नताशज्ञानमेव गोलयुक्त्या भवति । दृङ्मण्डले क्षितिजादुपरि यैर्भागै रविर्भवति तैरेव पश्चिमक्षितिजादधः कीलकच्छाया लगतीत्यर्थः । ग्रहवेघे यदक्षेपधिष्ण्यद्वयं नेमिस्थं कृत्वा यन्त्रं घृतं तत् क्रान्तिवृत्ताकारावस्थानार्थम् । अतस्तत्रापि गोलयुक्तिरेव वासना । इति चापतुयें । १४३-१५ ।
वा० वा०-चापतुर्ययन्त्रे' वदति दलीकृतं चक्रमिति। रामेण सम्यगुक्तमिदम्।
१. अत्र ब्राह्मस्फुटसिद्धान्ते ब्रह्मगुस:-
अङ्कितमंशनवत्या धनुषोऽर्धं तुर्यगोलकं यन्त्रम् । |
ब्राह्मस्फुटसिद्धान्ते--
घटिका स्वशङ्कुमागैः पृथग्गतैर्लम्बभू समज्यार्धात् । |
सिद्धान्तसार्वभौमे—
अथ प्रवक्ष्ये निजकल्पितं तद् वृत्तार्धरूपं धनुराख्ययन्त्रम् । |
तथा च सिद्धान्तसुन्दरे--
चक्र चक्रलवाङ्कितं च परिधौ सच्छछुङ्खलाधारको, |