पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/506

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६४
सिद्धान्तशिरोमणौ गोलाध्याये

 वा० वा० - वेदा भवा इत्यनेनान्त्या साध्यते । तत्र निरक्षे सर्वदा महाशङ्कतुल्यैव हृतिः पलांशाभावात् । लघुक्षेत्रे द्वादशाङ्गुलशङ्कतुल्यैव लघुहृतिः । ततोऽन्त्यौसाधनार्थमनुपातः । यदि द्युज्यास्थाने त्रिज्या तदा द्वादशाङ्गलतुल्यहृतिस्थाने का जाता निरक्षदेशे लघुक्षेत्रोत्थान्त्या । तत्राचार्येण पञ्चदशपद्मदशांशप्रमाणेन नवत्यंशमध्ये खण्डकषट्कमङ्गलात्मकं सूक्ष्मप्रकारतः साधितम् । तत्र सर्वेष्वपि खण्डकेषु द्वादशैवाङ्गुलानि प्राप्तीनि । व्यङ्गुलानि तु भिन्नान्येवोपलब्धानि । ततः प्रथमखण्डस्थ द्वितीयखण्ड्स्थव्यड्रलेभ्यः 'संशोध्यानीत्यादिना वेदा भवा इत्यादिव्यड्रलान्युक्तानि । निरक्षदेशस्थानामेतेषां व्यङ्गलानां साक्षदेशीयकरणायानुपातः। दशतुल्ये पलकणें व्यङ्गलान्येतानि तदेष्टपलकॅणें कानीति । व्यजुलानि षटिभक्तान्यड्रलानि भवन्ति ऊध्वंस्थद्वादशाङ्गलानामप्यनेनानुपातेन द्वादशतुल्यगुणहरनाशात् पलकर्णतुल्याङ्गुलत्वमेव भवति । क्रान्तिद्युज्यादिकं सायनग्रहादेवोचितम् ।

 रूपाश्विनो विशतिरङ्कचन्द्रा' इत्यादि खण्डकैर्जीवासाधनवदेभिरपि जीवासाधनमुचितमित् ि‘तैः क्रान्तिपाता*ढयरवेर्भुज्जृज्या षष्ट्युद्धृताक्षश्रृवृणेन युक्तेत्युक्तम्_ द्वादशशॆङ्कप्रमुाणेनेदं तदा त्रिशच्छङ्कप्रमाणेनं किमिति गुणहेरौ त्रिभिरपवत्यं ‘दिघ्नी कृताप्ता भेवतीह यष्टिरित्युक्तम् । अत्रै यत्खाङ्काङ्गलविस्तृतत्वमुक्त तत् सर्वदेशाभिप्रायेण । सर्व वासनाभाष्ये स्पष्टम् ॥२३-२४।

इदानी यष्टिप्रयोजनमाह—

धार्यं तथा फलकयन्त्रमिदं यथैव
तत्पार्श्वयोर्लगति तुल्यमिनस्य तेजः । ।
छायाक्षजा स्पृशति तत्परिधौ यमंशं
तत्रांशके मतिमतां तरणिः प्रकल्प्यः ।। २५ ।।
अक्षप्रोतां रविलवगतां पट्टिकां न्यस्य तस्माद्
यटेरग्रादुपरि फलकेष्धश्व गोलक्रमेण ।
यत्नाद्दष्यश्रदलगुणस्तत्र या ज्या तयात्र
छिन्ने वृत्ते तलगघटिकाः स्युघ्नंता लम्बकान्ताः ।। २६ ।।

 वा० भा०-तद्यन्त्रमाधारेsवलम्बमानं तथा धार्य यथा यन्त्रोभयपाश्र्वयोस्तुल्यकालमेवाकतेजो लगति। अकाभिमुखनेमिक दृङ्मण्डलाकारमित्यर्थ:। तथा धूते सुषिरे प्रोतस्याक्षस्य छाया वृतपरिधौ यस्मिन्नशे लगति तत्रांशेऽकः कल्प्यः । अथाक्षश्रौतैव पट्टिका रविचिह्न स्थाप्या .तथा। धृतायां पट्टकायां यत् पूर्व कृतं यष्टिचिह्न तस्मादुपर्यंतरगोले दक्षिणगोले तु तदधश्वरज्यामितान्यङ्गलानि फलके गणयित्वा तत्र चिह्न कार्यम्। चिह्नस्थाने या ज्यरेखा सा वृत्ते यत्र लग्नाँ तस्मादधो वृत्ते लम्बरेखावधेयवित्यो घटिकास्तावत्यस्तत्काले नता ज्ञेयाः । तद्रविचिह्न यदि रेखयोर्मध्ये स्थितं तदा तदनुसारिणीं तत्रान्यां रेखां प्रकल्प्य नाडयो ज्ञेयाः ।


१. संशोध्यानित्यादिना, इति ख पु० । २. पाताव्यरवे इति ख पु० ।