अत्रोपपत्तिः--अत्रोत्तरगोले सुषिरादुपरि दक्षिणे । तदधश्चरज्यामितान्यङ्गलानि दत्त्वा । तदग्रे चिह्नं कार्यम् ॥ तदन्त्याग्रं ज्ञेयम् । एवं वृत्तस्याधो व्यासार्धं चरज्यया युतोनं कृतं । भवति। अत: सान्त्या । अथ वृत्तपरिधौ यत्र छाया लग्ना तन्मध्यरेखयोरन्तरं किल , शङ्कुः। छायोपरि पट्टिकायां न्यस्तायां यत्र यष्टिचिन्ह तन्मध्यरेखयोरन्तरमिष्टान्त्या। यदि त्रिज्याग्रे शड़कुतुल्यो विप्रकर्षस्तदा यष्टघग्रे कियानित्येव त्रैराशिक कृत भवति। सा शुदलेऽन्यायाः शोध्या । अन्त्याग्रं तु चरज्यया मध्यज्याया उत्तरगोल उपरि दक्षिणेऽधी वर्तते । अतो यष्ट्यग्रादुपर्यधश्रज्या दत्ता । तदग्रे या ज्यारेखा तयावच्छिन्नेऽधोवृतखण्डे बाणरूपमन्त्याया अवशेष भवति। अतस्तदुत्क्रमज्यायावापं नतघटिका भवन्ति। तस्या जयारेखायाः सकाशाल्लम्बरेखावधि नतघटिका वृत्ते विगणम्य ग्राह्या इत्यर्थः ॥ २५-२६ ।।
एवं छायादर्शनात् कालज्ञानमुक्त्वेदानीमेतावत्यभीष्टे काले नते क्व छाया लगिष्यतीत्येतदर्थमाह-
लम्बाद्देया विनतघटिकास्तज्ज्यकातश्वरज्या |
वा० भा०-अधस्तनाल्लम्बवृत्तसंपाताढूध्र्व वृत्ते नतघटिका गण्याः । तदग्रे या ज्यारेखा तस्या अध उत्तरगोले दक्षिणे तु तदुपरि फलके चरज्यामितान्यङ्गुलानि गणयित्वाग्रे चिहूं कार्यम्। तत्र या ज्यारेखा तस्यां रेखायां पट्टीस्थितयष्टिचिह्न यथा लगति तथाक्षप्रोतैव सा. पट्टी धार्या पट्टीस्थाने तस्मिन् कालेऽक्षस्य छाया पतिष्यतीति ज्ञेयम् ।
अत्रोपपत्तिः-कथितप्रकारवैपरीत्येन ॥
यदस्य यन्त्रस्य नवत्यङ्गुलविस्तारस्तद्द्वगुणं दैर्घ्यमुक्ततं तत् सर्वदेशाभिप्रायेण । अथवा यावदेव स्वदेश उपयोगि तावदेव बुद्धिमता कार्यम् । तद्यथा । वृतमध्यरन्ध्रादुपरि परमचरज्यामिता रेखाधवाटत्रिशत्। एवं षट्चत्वारिश ४६ दङ्गुलानि विस्तारे। परमयष्टिमितान्यङ्गुलानि द्विगुणानि षट्सप्सतिर्देध्र्ये ७६ । एतावता कुरुक्षेत्रपर्यन्तं यावत् कालज्ञानं स्यात् ॥ २७ ॥ इति फलकयन्त्रम् । अथ यष्टियन्त्रमाह-
त्रिज्याविष्कम्भाध वृत्त कृत्वा दगांडूत तत्र । |