वा० भा०- समायां भूमौ त्रिज्यामिताङ्गुलेन कर्कटेन वृत्त दिगङ्कित च कृत्वा तत्र प्राकू पश्वादग्रा गोलवशादुतरा दक्षिणा वा ज्यार्घवद्दया । अग्राग्रयोर्बद्ध सूत्रमुदयास्तसूत्रमुच्यते । अथ तस्यैव वृत्तस्य मध्ये द्युज्यामितेन कर्कटेनान्यद्द्वृत्तं कृ त्वा नाडीषष्टघाङ्कनीयम् । ततस्त्रिज्यामिताङ्गुलाया ऋजुयटेर्मूल केन्द्र लग्न कृत्वाग्रमकाभिमुखं तथा धार्य यथा यष्टिर्नटच्छाया स्यात् । ततः प्राच्यां दिशि त्रिज्यावृत्ते यदग्राग्रचिह्म तस्य यष्ट्यग्रस्य च मध्यमृजुशलाकया मित्वा सा शलाका द्युज्यावृत्ते जीवावद्धार्या । न ज्यार्धवत् । ततः शलाकाग्रयोर्मध्ये धनुष यावत्यो घटिकास्तावत्यस्तदा दिनगता ज्ञेयाः ॥ एवं पशिचमाग्राग्रयष्टयग्रयोर्मध्ये शलाकया दिनशेषा ज्ञेयाः । दिनशेषोनं दिनमानं दिनगतनाडयो भवन्ति । यतस्तदैक्यं दिनमानम् ॥
अत्रोपपत्तिर्गोलयुक्तश्चेंव । यष्टिस्त्रिज्या ॥ यद्भुवि वृत्तं लिखितं तत् क्षितिजम् । तत्र पूर्वतः पश्चिमतश्चाग्रा । अग्राग्रयोरुपरिंगता रेखोदयास्तसूत्रम् । अग्राग्र उदितो रविर्यथा यथाहोरात्रवृत्तगत्योपरि गच्छति तथा तथा केन्द्रे निवेशितमूलाया यटेरग्रे भ्राम्यमाणे यष्टिनंटद्युतिः स्यात् । यतो यष्ट्यग्रे रविः । अग्राग्रादक यावदहोरात्रवृत्ते यावत्यो घटिकास्तावत्यो दिनगता भवन्ति । तत्राकाशे द्युज्यावृत्तं लेखितुं नायाति । अतोऽग्राग्रयष्टयग्रयोरन्तरं शलाकया मित्वा गृहीतम्। ततो भुवि लिखिते द्युज्यावृत्ते तया शलाकया ज्यारूपया धनुषि घटिकाज्ञान युक्तियुक्तम् !।। २८-३० ।।
वा० वा०-अथ 'यष्टियन्त्रमाह त्रिज्याविष्कम्भाद्ध वृत्तं कृत्वेत्यादिभिः ॥ २८-३० ।।
१. अत्र शिष्यधीवृद्धिदे लल्ल:--
दिङ्मघ्यस्थितमूला यष्टिर्नष्टप्रभात्रिगुणतुल्या । |
तथा च ब्राह्मस्फुटसिद्धान्ते ब्रह्मगुप्सः--
परिलिख्यवृत्तमवनौ यष्टिव्यासार्धभन्यदस्यान्तः । |
अपि च सिद्धान्तशेखरे श्रीपति:--
संसाधिताशं कृतचक्रभागं विधाय वृत्तं समभूप्रदेशे । |